SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ aaaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् sairabadi ८३ ] प्राज्ञः नित्यानित्याभ्यां द्रव्यार्थपर्यायार्थाश्रयणात् समीक्ष्य प्राणिनां पदार्थाविर्भावनेन दीप इव यदिवा संसारसमुद्रपतितानां सदुपदेशदानेनाश्वासहेतुत्वाद् द्वीप इव सम्यक् समतया समं वा धर्मम् उत् प्राबल्येन आह उक्तवानिति ।।४।। किञ्चान्यत्से सव्वदंसी अभिभूयणाणी, निरामगंधे धिइमं ठितप्पा । अणुत्तरे सव्वजगंसि विज्जं, गंथातीते अभए अणाऊ ||५|| ___स सर्वदर्शी अभिभूय मत्यादीनि ज्ञानानि यद्वर्तते ज्ञानं केवलाख्यं तेन ज्ञानी, अथ तस्य भगवत: क्रियामाह-निर्गत:आम: अविशोधिकोट्याख्यो दोषः तथा गन्धो विशोधिकोटिनामा दोषो यस्मात् स निरामगन्धः शुद्धचर्यावानित्यर्थः, तथा चारित्रे धृतिमान, आत्मस्वरूपे स्थित आत्मा यस्य स स्थितात्मा सर्वजगति अनुत्तरो विद्वान् बाह्याभ्यन्तरान् ग्रन्थान् अतीत: अतिक्रान्तः अभयः अनायुः सिद्धिगामीति ।।५।। अपि चसे भूतिपण्णे अणिएयचारी, ओहंतरे धीरे अणंतचक्खू । अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं पगासे ||६|| स भूतिप्रज्ञः वर्धमानप्रज्ञ: अनियतचारी ओधन्तर : संसारसमुद्रं तरितुं शीलमस्य स तथा, धीरः अनन्तचक्षुः अनुत्तरं तपति यथा सूर्यः तम: अपनीय प्रकाशयति यथा वैरोचनः अग्नि: स एव प्रज्वलितत्वात् इन्द्रः इति ।।६।। किञ्चअणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुपण्णे । इंदे व देवाण महाणुभावे, सहस्सनेता दिविणं विसिढे |७|| __यथा दिवि स्वर्गे देवानां सहस्राणां विशिष्टो नेता इन्द्रः तथा जिनानां ऋषभादितीर्थकृतां इममनुत्तरं धर्मं नेता प्रणायकोऽयं मुनिः श्रीवर्धमानस्वामी काश्यपः गोत्रेण आशुप्रज्ञः केवल ज्ञानीति ।।७।। अपि चसे पण्णया अक्खये सागरे वा, महोदधी वा वि अणंतपारे । अणाइले वा अकसायि मुक्के, सक्के व देवाहिपती जुतीमं ||८|| स भगवान् प्रज्ञया अक्षयः अनन्तज्ञानित्वात् यथा सागर : महोदधिः स्वयंभूरमण: अनन्तपारः अनाविलः कर्मकलङ्काऽपगमात् अकषायी, कर्मबन्धाद् मुक्त: भिक्षुरिति क्वचित् पाठः तथा च सर्वलोकपूज्यत्वेऽपि भिक्षामात्रजीवित्वाद् भिक्षुरेवासौ, तथा द्युतिमान् शक्र इव देवाधिपतिरिति ।।८।। किञ्च
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy