SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् सति यूयम् अयोहारीव जूरयिष्यथ । यथाऽसौ लोहवाहक : अपान्तराले रुप्यसुवर्णरत्नादिलाभेऽपि दूरमानीतमिति लोहं नोज्झितवान्, पश्चात् स्वस्थानावाप्तावल्पलाभे सति जूरितवानिति ।।७।। यतः पाणाइवा वट्टंता, मुसावाए असंजता । अदिन्नादाणे वट्टंता, मेहुणे य परिग्गहे ॥८॥ ते पचनपाचनादिकं कुर्वन्त: प्राणातिपाते वर्तमाना:, मृषावादेऽपि असंयताः संयताः स्म इति भणन्तः येषां जीवानां शरीराण्यभ्यवहरन्ति तैरदत्तानीति अदत्तदानेऽपि, गोपशुधनधान्यग्रामादिपरिग्रहात् मैथुने परिग्रहे च वर्तमाना जूरयिष्यन्तीति ।। ८ ।। अथ मतान्तरदूषणाय पूर्वपक्षयितुमाह एवमेगे तु पासत्था, पण्णवेंति अणारिया | इत्थीवसं गता बाला, जिणसासणपरम्मुहा || ९ || ५७ एवमेके तु पार्श्वस्थादयः अनार्याः स्त्रीवशगता बाला जिनशासनपराङ्मुखाः प्रज्ञापयति ।। ९ ।। किमित्याह जहा गंडं पिलागं वा, परिपीलेज्ज महुत्तगं । एवं विण्णवणित्थी, दोसो तत्थ कुतो सिया ||१०|| यथा काश्चिद् गण्डं पिटकं वा निष्पीड्य पूयरुधिरादिकं निर्माल्य मुहूर्तं सुखित भवति तत्र को दोष: ? एवं स्त्रीविज्ञापनायां - स्त्रीपरिभोगे दोषस्तत्र कुतः स्यात् ? ।। १० ।। किञ्चजहा मंधादए नाम, थिमितं भुंजती दगं । एवं विण्णवणित्थीसु, दोसो तत्थ कुतो सिया ॥ ११॥ यथा मन्धादन :- मेषो नाम स्तिमितम् अकलुषयन्नुदकं पिबति एवं स्त्री परिभोगे दोषस्तत्र कुतः स्यात् ? ।। ११ ।। अपि च जहां विहंगमा पिंगा, थिमितं भुंजती दगं । एवं विण्णवणित्थीसु, दोसो तत्थ कुतो सिया ||१२|| यथा पिंगा-कपिञ्जला विहङ्गमा आकाशस्थाः स्तिमितम् उदकं पिबति एवं स्त्रीपरिभोगे दोषस्तत्र कुत: स्यात् ? अपितु न कोऽपीत्यर्थः ।। १२ ।। अत्रोत्तरदानं-अवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्धके कुतो निर्दोषतेति । तथा चोक्तं
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy