SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐadakibaat३५] कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं दिव्वयं । । कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं ||२३|| ___ कुत्सितो जयोऽस्येति कुजयः-द्युतकार: अपराजित: अक्षैर्दिव्यन्-क्रीडन् कुशलत्वात् यथा कृतमेव-कृतयुगं चतुष्कमेव गृहीत्वा लब्धजयत्वात्तेनैव दिव्यति, ततोऽसौ तल्लब्धजयः सन् न कलिम्-एककं, न त्रैतं-त्रिकं, न च द्वापरं-द्विकं गृह्णातीति ।।२३ ।। दान्तिकमाहएवं लोगंमि ताइणा, बुइएऽयं धम्मे अणुत्तरे । तं गिण्ह हितं ति उत्तम, कडमिव सेसऽवहाय पंडिए ।॥२४॥ एवं लोके त्रायिणा-सर्वज्ञेन बूतः कथितो य: अयं धर्मः अनुत्तर: एकान्तेन हितमिति कृत्वा गृहस्थकुप्रावनिकपार्श्वस्थादिभावमपहाय तम् उत्तमं गृहाण त्वमपि पण्डितः सन् यथा द्युतकार: शेषमपहाय कृतं-चतुष्कं गृह्णातीति ।।२४।। पुनरप्युपदेशान्तरमाहउत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुतं । जंसी विरता समुट्ठिता, कासवस्स अणुधम्मचारिणो ॥२५॥ . दुर्जयत्वाद् उत्तराः प्रधाना मनुजानां ग्रामधर्माः-शब्दादिविषया मैथुनरूपा वा सर्वज्ञैः आख्याता इति एतन्मयाऽनुश्रुतं येभ्यो ग्रामधर्मेभ्यो ये विरता: संयमोत्थानेन च समुत्थितास्ते काश्यपस्य-ऋषभस्वामिनो वर्धमानस्वामिनो वा अनुधर्मचारिणः, तीर्थंकरप्रणीतधर्मानुष्ठायिनो भवन्तीत्यर्थः ।।२५।। किञ्चजे एय चरंति आहियं, नाएणं महता महेसिणा । ते उद्वित ते समुट्ठिता, अन्नोन्नं सारेंति धम्मओ ||२६|| ___महता महर्षिणा ज्ञातेन ज्ञातपुत्रेण आख्यातम् एतं धर्म ये सम्यक् चरन्ति ते एव उत्थितास्ते एव समुत्थिताः सन्त: अन्योऽन्यं धर्ममाश्रित्य धर्मतो वा भ्रश्यन्तं सारयन्ति चोदयन्ति पुनरपि सद्धर्मे प्रवर्तयन्तीति ।।२६।। किञ्चमा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए । जे दूवणतेहिं णो णया, ते जाणंति समाहिमाहियं ॥२७॥ ___ मा प्रेक्षस्व-स्मर पुरा भक्तान् दुर्गति प्रणामयन्ति प्राणिनमिति प्रणामकास्तान् प्रमाणकान्-शब्दादिविषयान् अनागतांश्च नाऽऽकाक्षेत् अपि तु अभिकाक्षेत् उपधिं मायाम् अष्टप्रकार वा कर्म हन्तुम् । पाठान्तरं वा ‘धुणित्तए' त्ति धवितुम्-आत्मनः पृथक्कर्तुम्, तथा ये दुरुपनतेषु-दुष्टधर्मं प्रत्युपनतेषु तीथिकेषु यदिवा दूमणत्ति दुष्टमन: कारिण उपतापकारिणो वा
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy