SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Baladakiad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaids ३३ | हिको जिनकल्पिकादिनिरवद्यामपि न ब्रूयात, तथा प्रमार्जनेन तृणानि कचवरं च न समुच्छिन्यात्-नापनयेत, नापि शयनार्थी कश्चिदाभिग्रहिकः तृणं संस्तरेत् किं पुन: कम्बलादिकं ? अन्यो वा शुषिरतृणं न संस्तरेदिति ।।१३।। किञ्चजत्थऽत्थमिए अणाउले, सम-विसमाणि मुणीऽहियासए । चरगा अदुवा वि भेरवा, अदुवा तत्थ सिरीसिवा सिया ||१४|| सविता यत्र एव अस्तमितस्तत्रैव तिष्ठन् मुनिरनाकुलः सन् समविषमानि शयनासनादीनि अध्यासीत तत्र चरका: दंशमशकादयः अथवापि भैरवा:-भयानका रक्ष:शिवादय: अथवा सरिसृपाः स्युः तत्कृतांश्च परीषहान सम्यग अधिसहेतेति ।।१४।। साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याहतिरिया मणुया य दिवगा, उवसग्गा तिविहाऽघियासिया । लोमादीयं पि ण हरिसे, सुन्नागारगते महामुणी ||१५|| तैरचा मानुषा दिव्याश्च उपसर्गास्त्रिविधाः तान् अध्यासीत शून्यागारगतो महामुनिः जिनकल्पिकादिर्यथा भयेन लोमादिकमपि न हर्षेत् यदिवा एवमुपसर्गास्त्रिविधा अपि अध्यासिता भवन्ति यदि रोमोद्गमादिकमपि न कुर्यादिति ।।१५।। किञ्चणो आवऽभिकंखे जीवियं, णो वि य पूयणपत्थए सिया । अब्भत्थमुवैति भेरवा, सुन्नागारगयस्स भिक्खुणो ||१६|| एवमुपसगैस्तुद्यमानोऽपि स नाभिकाक्षेद् जीवितं नापि च एवं सहनद्वारेण पूजनप्रार्थक: स्यात्, एवं च भिक्षोः शून्यागारगतस्य सम्यक् सह्यमाना भैरवा अभ्यस्तं-स्वात्मताम् उपयान्ति, भिक्षोः शून्यागारगतस्य तत्सहनाच्च उपसर्गा: सुसहा एव भवन्तीति भावः ।।१६।। पुनरप्युपदेशान्तरमाहउवणीततरस्स ताइणो, भयमाणस्स विवित्तमासणं । सामाइयमाहु तस्स जं, जो अप्पाणं भए ण दंसए ।।१७।। __ आत्मानं ज्ञानादौ उपनीततरस्य त्रायिणो विविक्तमासनं-स्त्रीपशुपण्डकविवर्जितं वसत्यादिकं भजमानस्य यः च आत्मानं परीषहोपसर्गजनिते भये न दर्शयेत् तस्य सामायिकं समभावरुपं सामायिकादिचारित्रम् आहुः सर्वज्ञा यत् यस्मात्ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यमिति ।।१७।। किञ्च-. ---- उसिणोदगतत्तभोइणो, धम्मट्ठियस्स मुणिस्स हीमतो। संसग्गि असाहु रायिहिं, असमाही उ तहागयस्स वि ||१८||
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy