SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ aasamacharad श्री सूत्रकृताङ्गसूत्रम् Shabdada ३० ॥अथ द्वितीय उद्देशकः प्रारभ्यते ॥ अस्य चायमभिसंबन्ध: इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहाऽपि सैवाभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रमिदम्तयसं व जहाति से रयं, इति संखाय मुणी ण मज्जती । गोतण्णतरेण माहणे, अहऽसेयकरी अन्नेसि इंखिणी ||१|| यथा उरग: स्वां त्वचं जहाति एवम् असौ अपि रजः अष्टप्रकारं कर्माऽकषायित्वेन जहाति इति संख्याय-ज्ञात्वा मुनिर्न माद्यति गोत्रेणान्यतरेण वा मदस्थानेन माहण: साधुः पाठान्तरं वा ‘जे विउ' त्ति यो विद्वान् स जातिकुलादिभिर्न माद्यतीति, अथ अश्रेयस्करी इडिनी निन्दा अन्येषाम् अतो न कार्येति ।।१।। साम्प्रतं परनिन्दादोषमधिकृत्याहजो परिभवती परं जणं, संसारे परियत्तती महं । अदु इंखिणिया उ पाविया, इति संखाय मुणी ण मज्जती ||२|| यः परिभवति परं जनं स संसारे परिवर्तते-भ्रमति महान्तं कालं, क्वचित् ‘चिरम्' इति पाठः, अत: इङिनीका-निन्दा पापिकैव यदिवा स्वस्थानादधमस्थाने पातिकैव इति संख्यायज्ञात्वा मुनिर्न माद्यति ।।२।। मदाभावे च यद्विधेयं तद्दर्शयितुमाहजे यावि अणायगे सिया, जे वि य पेसगपेसए सिया । जे मोणपदं उवट्ठिए, णो लज्जे समयं सया चरे ॥३॥ यश्चापि अनायकः-नान्यो नायकोऽस्येति चक्रवर्त्यादिः स्यात् ‘अदु' त्ति अथशब्दो निपात: निपातानामनेकार्थत्वात्अत इत्यस्यार्थे वर्तत इति योऽपि च तस्यैव चक्रवर्त्यादेः प्रेष्यप्रेष्यः कर्मकरस्यापि कर्मकर: स्यात् एवम्भूतोऽपि चेद् यो मौनपदं संयमम् उपस्थित : समाश्रितः सोऽपि चक्रवर्त्यादिः परस्परवन्दनादिकाः सर्वाः क्रिया: कुर्वन् न लज्जेत इतरश्च नोत्कर्षं विदधीत, अपि तु समता-समभावं सदा चरेत्-संयमोद्युक्तो भवेदिति ।।३।। क्व पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाहसम अन्नयरम्मि संजमे, संसुद्धे समणे परिचए । जे आवकहा समाहिए, दविए कालमकासि पंडिए ||४|| अन्यतरस्मिन् सामायिकादौ संयमे संशुद्धे संशुद्धो वा श्रमणो लज्जामदपरित्यागेन सम:-समचित: परिव्रजेत् यो यावत्कथं समाहित सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा-शोभनाध्यवसायेन युक्त: द्रव्य: अरक्तद्विष्टः सन् कालमकार्षीत् स पण्डितः, अयं भाव:-कथा मृतस्यापि भवति, अतो यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संय
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy