SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् od शोभनत्वेन आख्यातार: सन्तीति न तत्र विदितवेद्येनास्था विधेयेति ।। १३ ।। पुनरन्यथा कृत वादिमतमुपदर्शयितुमाह सएसए उवट्ठाणे, सिद्धिमेव ण अन्नहा | अहो वि होति वसवत्ती, सव्वकामसमप्पिए ||१४|| ते कृतवादिनः शैवैकदण्डिकप्रभृतयः स्वके स्वके उपस्थाने-अनुष्ठाने एव सिद्धिंअशेषसांसारिकप्रपञ्चरहितस्वभावां वदन्ति नान्यथा, उक्तस्वरुपसिद्धिप्राप्तेः प्रागपि अहो इहैव जन्मनि वशवर्ती - वशेन्द्रियः सर्वे कामा:- अभिलाषा : समर्पिता :- संपन्ना यस्य स सर्वकामसमर्पितश्च भवति ।। १४ । । एतदेव दर्शयति सिद्धा य ते अरोगा य, इहमेगेसि आहितं । सिद्धिमेव पुराकाउं, सासए गढिया णरा ||१५|| २० सिद्धाश्च ते अरोगा भवन्ति, अरोगग्रहणं चोपलक्षणम्, अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावादिति, एवम् इहैकेषां - शैवादीनाम् इदम् आख्यातम्, ते च शैवादयः सिद्धिमेव पुरस्कृत्य स्वाशये - स्वकीये दर्शने ग्रथिता: अध्युपपन्ना नरा इव नरा: प्राकृपुरुष इति ।। १५ ।। साम्प्रतमेतेषामनर्थप्रदर्शनपुर : सरं दूषणाभित्सयाह असंवुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवज्जंति ठाणा, आसुर - किब्बिसिय ||१६|| त्ति बेमि । ॥ ततिओ उद्देसओ सम्मत्तो ॥ ते हि पाखण्डिका मोक्षाभिसन्धिना समुत्थिता अपि असंवृता अनादिकं - संसारकातारं भ्रमिष्यन्ति मुग्धजनप्रतारकत्वात् पौनःपुन्येत, यापि च तेषां बालतपोऽनुष्ठानादिना स्वर्गाप्तिः साप्येवंप्राया भवतीति दर्शयति-कल्पकालं- प्रभूतकालम् उत्पद्यन्ते आसुराः असुरकुमारनागकुमारादित्वेन, तत्स्थानेषूत्पन्ना अपि न प्रधानाः अपि तु किल्बिषिका भवन्तीति ब्रवीमि ।।। १६ ।। ।। इति तृतीयोद्देशक: ।। ॥ अथ चतुर्थोद्देशकः अस्य चायमभिसंबन्धः-अनन्तरोद्देशके तीर्थिकानां कुत्सिताचारत्वमुक्तमिहापि तदेवाभिधीयते, तदनेन संबन्धेनोयातस्यास्योद्देशकस्यादिसूत्रमिदम् एते जिता भो ! न सरणं, बाला पंडितमाणिणो । हेच्चा णं पुव्वसंजोगं, सिया किच्चोवदेसगा ||१||
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy