________________
Saamaaaaaad श्री सूत्रकृताङ्गसूत्रम् asso१३९ चयेत् जानीयात् ज्ञात्वा च धर्मदेशनां कुर्वन् श्रोतुः पापभावं, पाठान्तरं वा आत्मभावं मिथ्यात्वादिकं विषयगृहनुतां वा सर्वथा विनयेत् अपनयेत् तुशब्दात् विशिष्टगुणारोपणं च कुर्यात्, यत: प्राय: प्राणिनो भयावहै : रूपैः उपलक्षणात् शब्दादिविषयैश्चेहामुत्र च लुप्यन्ते विडम्बनाभाजो भवन्ति, ततः श्रोतुरभिप्रायं च गृहीत्वा सम्यगवगम्य विद्वान् त्रसस्थावरेभ्यो हितं धर्ममाविभावयेदिति ।।२१।। सर्वमेव तपश्चरणादिकं पूजासत्कारादिनिरपेक्षेण विधेयं विशेषतो धर्मदेशनामित्याहन पूयणं चेव सिलोयकामी, पियमप्पियं कस्सति णो कहेज्जा। सब्वे अणढे परिवज्जयंते, अणाउले या अकसाइ भिक्खू ।।२२।।
साधु देशनां विदधानो न पूजनम्-अभिकाङ्क्षत् न च श्लोककामी-नापि श्लोकं कीर्ति कामयेद्, तथा श्रोतुर्यत् प्रियं राजकथादिकं छलितकथादिकं च तथा अप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं च कस्यचित् न कथयेत्, पाठान्तरं वा निन्दादिकं न कुर्यादिति । अपि तु सम्यग्दर्शनादिकं धर्मं कथयेत् । उपसंहरन्नाह-सर्वान् अनर्थान् परिवर्जयेत् अनाकुल: अकषायी च भिक्षुर्भवेदिति ।।२२।। सर्वाध्ययनोपसंहारार्थमाहआहत्तहियं समुपेहमाणे सव्वेहिं पाणेहिं निहाय दंडं। नो जीवियं नो मरणाभिकंखी, परिवएज्जा वलयाविमुक्के ।।२३।।
यथातथ्यं सम्यग्दर्शनादिकं धर्म समुत्प्रेक्षमाण : अनुष्ठानतोऽभ्यस्यन् सर्वेषु प्राणिषु दण्ड्यन्ते प्राणिनो येन स दण्डः प्राणव्यपरोपनविधानं तं दण्डं निधाय परित्यज्य प्रांणात्ययेऽपि याथातथ्यं धर्मं नोल्लङ्घयेदिति । एतदेव दर्शयति-नजीवितम् असंयमजीवितं काक्षेत्, न च परीषहपराजितो मरणाभिकाङ्क्षी स्यात् । तदेवं मेधावी परिव्रजेत् वलयेन मायारूपेण मोहनीयकर्मणा वा विप्रमुक्त: वलयविप्रमुक्त इति ब्रवीमिति पूर्ववत् ।।२३।।
।। याथातथ्याऽध्ययनम् समाप्तम् ।।
।। अथ ग्रन्थनामकं चर्तुदशमध्ययनम् ।। अनन्तराध्ययने याथातथ्यमिति सम्यकचारित्रमभिहितं, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागादवदातं भवतीति ग्रन्थत्यागश्चात्राध्ययने प्रतिपाद्यतेगंथं विहाय इह सिक्खमाणो, उट्ठाय सुबंभचेरं वसेज्जा । ओवायकारी विणयं सुसिक्खे, जे छेए विप्पमादं न कुज्जा ||१||