SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ साणं सूइयं गावं (वि), दित्तं गोणं हयं गयं । संडिब्भं कलहं जुझं, दूरओ परिवज्जए ॥७१॥ 'साणं 'त्ति श्वानं लोकप्रतीतं, सूतां गां-अभिनवप्रसूतां, दृप्तंदर्पितं, किमित्याह-गोणं हयं गजं, गौः-बलीवर्दः, हयः-अश्वः, गजोहस्ती, तथा 'संडिम्भं' बालक्रीडास्थानं, कलह-सवाक्प्रतिबद्धं, युद्धंखड्गादिभिः, एतद्रूरतो-दूरेण परिवर्जयेत्, आत्म-संयमविराधनासम्भवात्, श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः ॥७१॥ अत्रैव विधिमाहअणुन्नए नावणए, अप्पहिढे अणाउले । इंदियाणि जहाभागं, दमइत्ता मुणी चरे ॥७२॥ 'अणुन्नए'त्ति अनुन्नतो-द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, नावनतो-द्रव्य-भावाभ्यामेव, द्रव्यानवनतोऽनीचकायो भावानवनतोऽलब्ध्यादिनाऽदीनः, अप्रहृष्ट:अहसन्, अनाकुल:-क्रोधादिरहितः, इन्द्रियाणि-स्पर्शनादीनि, यथाभागंयथाविषयं, दमयित्वा-इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनि:साधुश्चरेत्-गच्छेत्, विपर्यये तु-प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योन्नतो लोकहास्यो, भावोन्नत ईर्यां न रक्षति, द्रव्यावनतो बक इति सम्भाव्यते, भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिद्दर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यां नार्हति ॥७२॥ दवदवस्स न गच्छिज्जा, भासमाणो अ गोयरे । हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया ॥७३॥ किं च-'दवदवस्स'त्ति द्रुतं द्रुतं-त्वरितमित्यर्थः, न गच्छेद् श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy