SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अस्संजमो सत्थं ॥२॥" घावनवल्गनोत्खननादिः, एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिबन्धनत्वात् शस्त्रमिति, तच्च किंचित् स्वकायशस्त्रं यथा कृष्णा मृन्नीलादिमृदः शस्त्रं, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा किंचित् परकायेऽपि परकायशस्त्रं यथा पृथ्वी अप्तेजःप्रभृतीनामप्तेजःप्रभृतयो वा पृथिव्याः, तदुभयं किंचिदिति किंचित्तदुभयशस्त्रं भवति, यथा कृष्णा मृद् उदकस्य पाण्डुमृदश्च परस्परं स्पर्शगन्धादिभिः, यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्ण-मृदुदकस्य पाण्डुमृदश्च शस्त्रं भवति, एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः सम्भवी साधुधर्म इति । एवमाऽऽपश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पति-श्चितवानाख्यातः, इत्याद्यपि दृष्टव्यम् । इदानीं वनस्पतिजीवविशेषप्रतिपादनायाह-'तंजहा अग्गबीया' इत्यादि, तद् यथा उपन्यासार्थः, अग्रं बीजं येषां ते अग्रबीजाःकोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजाः-उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजाः-इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः-शल्लक्यादयः, बीजाद् रोहन्तीति बीजरुहाः-शाल्यादयः, संमूर्च्छन्तीति संमूर्छिमाः-प्रसिद्धबीजाभावेन पृथिवीवर्षादिसमुद्भवास्ते तथाविधास्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति । अत्र तृणलताग्रहणं स्वगतानेकभेदसंदर्शनार्थं, वनस्पतिकायिकग्रहणं सूक्ष्मबादराद्यनेकवनस्पतिभेदसङ्ग्रहार्थं, एतेन पृथिव्यादीनामपि स्वगता भेदाः पृथिवीशर्करादयः, तथाऽवश्यायमिहिकादयः, अङ्गारज्वालादयः, झञ्झामण्डलिकादयो भेदाः सूचिता इति, सबीजाश्चित्तवन्तः 'आख्याताः'-कथिता इति । एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजा:-स्वस्वनिबन्धनाश्चित्तवन्तः-आत्मवन्त आख्याता:-कथिताः । एते श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy