________________
यथैवाख्याता तथैव सुष्ठु सूक्ष्मपरिहारासेवनेन प्रकर्षेण सम्यगासेवितेत्यर्थः अनेकार्थत्वाद्धातूनां "ज्ञपिरासेवनार्थः", तां चैवम्भूतां षड्जीवनिकायिकां श्रेयो मेऽध्येतुमिति, श्रेयः-पथ्यं हितं, मे इति आत्मनिर्देशः, छान्दसत्वात्सामान्येनात्मनिर्देश इत्यन्ये, ततश्च श्रेय आत्मनोऽध्येतुमिति पठितुं श्रोतुं भावयितुं, कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, "निमित्तकारणहेतुषु सर्वासां प्रायोदर्शन" मिति वचनात्, “हेतौ प्रथमा" अध्ययनत्वात्, अध्यात्मानयनात् चेतसो विशुद्ध्यापादनादि-त्यर्थः, एतदेव कुत ?, इत्याह-धर्मप्रज्ञप्तेः प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिस्ततो धर्मप्रज्ञप्तेः कारणात् चेतसो विशुद्ध्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति, अन्ये तु व्याचक्षतेअध्ययनं धर्मप्रज्ञप्तिरिति, पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतया अनुवादमात्रमेतदिति ।
शिष्यः पृच्छति-कतरा खलु इत्यादि सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य
इति ।
आचार्य आह-इमा खल्वित्यादिसूत्रमुक्तार्थमेव, अनेनाप्येतदर्शयति गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । तंजहा-पुढविकाइया इत्यादि, अत्र तद्यथेत्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यलक्षणा प्रतीता सैव कायः-शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः, स्वाथिके कप्रत्ययः । आपो-द्रवाः प्रतीतास्ता एव काय:शरीरं येषां ते अप्काया, अप्काया एव अप्कायिकाः, तेजः-उष्णलक्षणं प्रतीतं तदेव काय:-शरीरं येषां ते तेजस्कायाः, तेजस्काया एव तेजस्कायिकाः, वायुश्चलनधा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकाया, वायुकाया एव वायुकायिकाः, वनस्पतिः-लतादिरुपः प्रतीतः स एव कायः शरीरं येषां ते वनस्पतिकायाः, वनिस्पतिकाया एव श्रीदशवैकालिकम् ।