SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ वैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, - एतदनाचरितमिति २८, तथा चाजीव-वृत्तिता-जातिकुलगणकर्मशिल्पानामाजीवनं आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिता, जात्याद्याजीवनेनान्नयाचनेत्यर्थः, इयं चानाचरिता २९, तथा तप्तानिवृत्त-भोजित्वं-तप्तं च तदनिवृत्तं तप्तानिवृत्तं-अ-त्रिदंडोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः, इदं चानाचरितं ३०, आतुर-स्मरणानि च-क्षुधाद्यातुराणां पूर्वोपभुक्तस्मरणानि चानाचरितानि आतुरशरणानि वा दोषातुराश्रयदानानीति ३१ ॥२२॥ किञ्च मूलए सिंगबेरे य, उच्छुखंडे अनिव्वुडे । कंदे मूले अ सच्चित्ते, फले बीए य आमए ॥२३॥ मूलएत्ति मूलको-लोकप्रतीतः, शृङ्गबेरं च आर्द्रकं च तथा इक्षुखण्डं च लोकप्रतीतं, अनिर्वृतग्रहणं सर्वत्राभिसम्बध्यते, अनिवृतंअपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२३३-३४, तथा कन्दो-वज्रकन्दादिः ३५, मूलं च-सट्टामूलादि सचित्तमनाचरितं ३६, फलं-त्रपुष्यादि ३७, बीजं-तिलादि ३८, आमकंसचित्तमनाचरितमिति ॥२३।। किञ्च सोवच्चले सिंधवे लोणे, रोमालोणे य आमए । सामुद्दे पंसुखारे य, कालालोणे अ आमए ॥२४॥ 'सोवच्चले ति, सोवर्चलं ३९, सैन्धवं ४०, लवणं ४१, रुमालवणं च ४२, आमकं, आमकमिति सचित्तमनाचरितं, सामुद्र-समुद्रलवणमेव ४३, पांशुक्षार-ऊषरलवणं ४४, कृष्णलवणं च सैन्धवलवणपर्वतैकदेशजं ४५, आमकमनाचरितमिति ॥२४॥ किञ्च धूवणे त्ति वमणे य, वत्थीकम्म विरेअणे । अंजणे दंतवणे य, गायाब्भंगविभूसणे ॥२५॥ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy