SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ करणादिष्वपि कुर्यात् तन्मूलत्वाद् दुःखादीनामिति ॥ ५०७ ॥ उपदेशाधिकार एवाह गिहिणो वेआवडिअं न कुज्जा, अभिवायणवंदणपूअणं वा । असंकिलिट्टेहिं समं वसिज्जा, मुणी चरित्तस्स जओ न हाणी ॥५०८ ॥ गिहिणोत्ति, गृहिणो- गृहस्थस्य वैयावृत्त्यं - गृहिभावोपकाराय तत्कर्मस्वाऽऽत्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभयाश्रेयःसमायोजनदोषात्, तथाऽभिवादनं-वाङ्नमस्काररूपं, वन्दनं- कायप्रणामलक्षणं, पूजनं चवस्त्रादिभिः समभ्यर्चनं वा, गृहिणो न कुर्यादुक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः-गृहिवैयावृत्यादिकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिश्चारित्रस्य मूलगुणादिलक्षणस्य यतो- येभ्यः साधुभ्यः सकाशान्न हानि:, संवासतस्तदकृत्यानुमोदनादिनेत्यनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति ॥ ५०८ ॥ “असंक्लिष्टैः समं वसेदि" त्युक्तमत्र विशेषमाह ण या लभेज्जा निउणं सहायं, २१६ गुणाहिअं वा गुणओ समं वा । इक्कोऽवि पावाई विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥ ५०९ ॥ ण येति, कालदोषान्न यदि लभेत-न यदि कथञ्चित्प्राप्नुयान्निपुणंसंयमानुष्ठानकुशलं सहायं - परलोकसाधनद्वितीयं, किंविशिष्टमित्याहगुणाधिकं वा - ज्ञानादिगुणोत्कटं वा, गुणतः समं वा - तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किमित्याह - एकोऽपि संहननादियुक्तः पापानि - पापकारणान्यसदनुष्ठानानि श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy