SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ भवइ य एत्थ सिलोगोपेहेइ हियाणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य माणमएण मज्जई, विणयसमाही आययट्ठिए ॥४५५॥ भवति चात्र श्लोकः, अत्रेति विनयसमाधौ श्लोकः-छन्दोविशेषः, स चायं-पेहेइत्ति-प्रार्थयते हितानुशासनं-इच्छति इहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, शुश्रूषतीत्यनेकार्थत्वात् यथाविषयमवबुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत्करोति, न च कुर्वन्नपि मानमदेन-मानगर्वेण माद्यति-मदं याति, विनयसमाधौ-विनयसमाधिविषये आयतार्थिकः-मोक्षार्थीति ॥४५५॥ उक्तो विनयसमाधिः, श्रुतसमाधिमाह चउव्विहा खलु सुयसमाही भवइ, तंजहा-सुयं मे भविस्सइत्ति अज्झाइयव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइयव्वयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइयव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइयव्वयं भवइ ४ चउत्थं पयं भवइ । सू० १८ । चउव्विहा इत्यादि, चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्धया अध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न च विप्लुतचित्त इत्यध्येतव्यं भवति अनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन् विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यने न चालम्बनेनाऽध्येतव्यं भवति ३, तथा अध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेन चालम्बनेनाध्येतव्यं ४ चतुर्थं पदं भवति ।१८। श्रीदशवैकालिकम् । १८४
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy