________________
गुरुहीलनया - गुरोराशातनया भवतीति ॥४०७||
एवं पावकाद्याशातना अल्पा गुर्वाशातना महतीत्यतिशयप्रदर्श
नार्थमाह
आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो ।
तम्हा अणाबाहसुहाभिकंखी,
गुरूप्पसायाभिमुहो रमिज्जा ॥ ४०८ ॥
आयरिअत्ति-आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्द्धं पूर्ववत् । यस्मादेवं तस्मादनाबाधसुखाभिकाङ्क्षी - मोक्षसुखाभिलाषी साधुर्गुरुप्रसादाभिमुखः- आचार्यादिप्रसादे उद्युक्तः सन् रमेत-वर्तेतेति ॥ ४०८ ॥
केन प्रकारेणेत्याह
जहाऽऽहिअग्गी जलणं नमसे, नाणा हुईमंतपयाभिसित्तं
एवायरियं उवचिइज्जा,
अनंतनाणोवगओ वि संतो ॥ ४०९ ॥
जहाऽऽहिअग्गित्ति-यथाऽऽहिताग्नि- कृताऽवसथादिर्ब्राह्मणो ज्वलनं - अग्नि नमस्यति, किंविशिष्टमित्याह - नानाहुतिमन्त्रपदाभिषिक्तमाहुतयो - घृतप्रक्षेपादिलक्षणा मन्त्रपदानि - अग्नये स्वाहा इत्येवमादीनि तैरभिषिक्तं - दीक्षासंस्कृतमित्यर्थः एवं अग्निमिवाऽऽचार्यमुपतिष्ठेत्-विनयेन सेवेत, किंविशिष्ट इत्याह- अनन्तज्ञानोपगतोऽपीतिअनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति ॥ ४०९ ॥
श्रीदशवैकालिकम् ।
१६३