________________
द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्तनात्, तथा प्राणिपेयाः-तटस्थ प्राणिपेया नो वदेदिति, तथैव प्रवृत्तनिवर्तनादिदोषादिति ॥३१५।।
प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याहबहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि, एवं भासिज्ज पन्नवं ॥३१६॥
बहुवाहडेति, बहुधा भृताः प्रायशो भृता इत्यर्थः, तथा अगाहा इति बह्वगाधाः प्रायोगम्भीराः, तथा बहुसलिलोत्पीलोदकाः-प्रतिश्रोतोवाहितापरसरित इत्यर्थः, तथा बहुविस्तीर्णोदकाश्च-स्वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति ॥३१६।।
वाग्विधिप्रतिषेधाधिकार एवेदमाहतहेव सावज्जं जोगं, परस्सा अ निट्ठिअं । कीरमाणंति वा नच्चा, सावज्जं न लवे मुणी ॥३१७॥
तहेवत्ति, तथैव सावधं-सपापं, योग-व्यापारं अधिकरणं सभादिविषयं परस्यार्थाय-पर-निमित्तं निष्ठितं-निष्पन्नं तथा क्रियमाणं वा वर्तमानं वाशब्दात् भविष्यकाले भाविनं वा ज्ञात्वा सावद्यं नालपेत् सपापं न ब्रूयान्मुनिः-साधुरिति ॥३१७॥
तत्र निष्ठितं नैवं ब्रूयात् इत्याहसुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्टिए सुलट्ठित्ति, सावज्जं वज्जए मुणी ॥३१८॥
सुकडित्ति, सुष्ठु कृतं सुकृतं सभादि, सुपक्कमिति, सुष्ठु पक्कं सहस्त्रपाकादि, सुच्छिन्नमिति-सुष्ठु छिन्नं तद्वनादि, सुहृतमितिसुष्ठु हृतं क्षुद्रस्य वित्तमिति, सुमृत इति-सुष्ठु मृतः प्रत्यनीक इति, १३०
श्रीदशवैकालिकम् ।