SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ शक्यते । अत एव निर्वाणं च न गच्छति-इहलोके च धृति न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति ॥१९१॥ ___ एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यतेसिआ एगइओ लद्धं, विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥१९२॥ सियत्ति, स्यादेको लब्ध्वेति पूर्ववत्, विविधं-अनेकप्रकारं पानभोजनं तत्र भिक्षाचर्यागत एव भद्रकं भद्रकं-घृतपूर्णादि भुक्त्वा विवर्ण-विगतवर्णं आम्लखलादि, विरसं-विगतरसं-शीतौदनादि आहरेद्आनयेदिति ॥१९२॥ स किमर्थमेवं कुर्यादित्याहजाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ ॥१९३॥ जाणंतुत्ति, जानन्तु मां तावत् इमे श्रमणाः-शेषसाधवः यथा आयतार्थी-मोक्षार्थी अयं मुनिः-साधुः सन्तुष्टो-लाभालाभयोः समः सेवते प्रान्तं-असारं, रूक्षवृत्तिः-संयमवृत्तिः, सुतोष्यः-येन केनचित्तोषं नीयत इति ॥१९३॥ एतदेव किमर्थमेवं कुर्यादित्याहपूअणट्ठा जसोकामी, माणसम्माणकामए । बहुं पसवई पावं, मायासल्लं च कुव्वइ ॥१९४॥ पूयणट्ठत्ति, पूजार्थमेवं कुर्वतः स्वपक्ष-परपक्षाभ्यां सामान्येन पूजा भविष्यतीति, यशस्कामी-अहो अय-मिति प्रवादार्थी वा, मानसन्मानकामकः एवं कुर्यात् । तत्र वन्दना-भ्युत्थानलाभनिमित्तो मानो, वस्त्रपात्रादिलाभनिमित्तश्च सन्मान इति । य चैवम्भूतो बहुश्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy