SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ निर्ग्रन्थः तत्प्रतिज्ञया एक साधर्मिक समुद्दिश्य प्राणिनो ४ समारभ्य यथा पिण्डेषणायां तथा भणितव्यम् । एवं बहून् साधर्मिकान् समुद्दिश्य तथा एकां साधर्मिणीं समुद्दिश्यैवं बह्वीः साधर्मिणीः समुद्दिश्य तथा श्रमणब्राह्मणाऽतिथिकृपणवनीपकान् समुद्दिश्य तथैव पुरुषान्तरकृतं वस्त्रम् अविशोधिकोटि यथातथा न कल्पते यथा पिण्डैषणायाम् ।।१४३ ।। “साम्प्रतमुत्तरगुणानधिकृत्याह - सेभ से जं. असंजए भिक्खुपडियाए कीयं वा धोयं वा रत्तं वा घट्टं वा मट्ठे बा संपधूमियं वा तहप्पगारं वत्थं अपुरिसंतरकडं जाव नो., अह पुरिसं. जाव पडिगाहिज्जा ।।सूत्र - १४४ ।। स भिक्षुर्यत्र यत् पुनरेवं जानीयात्, तद्यथा-असंयतेन भिक्षुप्रतिज्ञया क्रीतं वा धौतं वा रक्तं वा घृष्टं वा मृष्टं वा सम्प्रधूमितं वा तथाप्रकारं वस्त्रम् अपुरुषान्तरकृतं यावन्नो प्रतिगृह्णीयात् । अथ पुनः पुरुषान्तरकृतं यावत् प्रतिगृह्णीयात् । विशोधिकोटिस्तु पुरुषान्तरकृताऽऽत्मीयकृतादिविशिष्टा कल्पले इति ।।१४४ ।। अपि च - भिक्खू वा २ से जा पुण वत्थाइं जाणिज्जा विरुवरुवाइं महद्वणमुल्लाई, तं. - · आईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आाणि वा कायाणि वा खोमियाणि बा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पनुन्नाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गज्जलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणि वा अन्नयराणि वा तह. वत्थाइं महद्वणमुल्लाइं लाभे संते नो पडिगाहिज्जा । से भि. आइण्णपाउरणाणि वत्थाणि जाणिज्जा, तं. - उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा बग्घाणि वा विबग्घाणि वा (विगाणि बा) आभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह. आईणपाउरणाणि वत्थाणि लाभे संते नो. ।। सूत्र - १४५ ।। भिक्षुर्वा २ यत्र यानि पुनर्वस्त्राणि जानीयाद् विरूपरूपाणि महाधनमूल्यानि महार्घमूल्यानि तद्यथा-आजिनकानि मूषकादिचर्मनिष्पन्नानि वा श्लक्ष्णानि वा श्लक्ष्णकल्याणानि वा आजका अजपक्ष्मनिष्पन्नानि वा कायकानि इन्द्रनीलवर्णकर्पासनिष्पन्नानि वा क्षौमिकानि वा दुकूलानि वा पट्टा पट्टसूत्रनिष्पन्नानि वा मलयानि मलयजसूत्रनिष्पन्नानि वा पनुन्नानि वल्कलतन्तुनिष्पन्नानि वा अंशुकानि वा चीनांशुकानि वा देशरागाणि एकपदे सरागाणि वा अम्लानानि वा गज्जलानि गर्जनप्रधानानिकडकडायमानानि वा फालिकानि देशविशेषनिष्पन्नानि वा कोयवाणि तूलपूरितवस्त्रनिष्पन्नानि सुषिरदोषदुष्टानि वा कम्बलानि वा प्रावरणानि वा अन्यतराणि वा वस्त्राणि महार्घमूल्यानि लाभे सति नो प्रतिगृह्णीयात् । स भिक्षुर्वा २ आजिनप्रावराणि चर्मनिष्पन्नानि वस्त्राणि जानीयात्, तद्यथा-उद्राणि आचाराङ्गसूत्रम् ७९
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy