SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयात् - श्रमणं वा ब्राह्मणं वा ग्रामपिण्डावलगकं - वनीपकं वा अतिथिं वा पूर्वं प्रविष्टं प्रेक्ष्य नैव तेषां संलोके संदर्शने सप्रतिद्वारे तिष्ठेत्, किन्तु स भिक्षुस्तमादाय अवगम्य एकान्तम् अपक्रामेत्, अपक्रम्य अनापाते विजने असंलोके तिष्ठेत्, अथ तस्य भिक्षोः स परो गृहस्थः अनापाते असंलोके तिष्ठतः अशनं वा ४ आहृत्य दद्यात्, स च एवं ब्रूयाद् - हे आयुष्मन्तः श्रमणाः! इदं युष्मभ्यम् अशनं वा ४ सर्वजनार्थं निसृष्टं तद् भुङ्क्ष्वं वा परिभजध्वं वा, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, द्वितीयपदे कारणे सति तं च एकाकी प्रतिगृह्य तृष्णीक उत्प्रेक्षेत अपि च अयं मम एव स्यात्, एवं स मातृस्थानं संस्पृशेत्, नैवं कुर्यात्, किन्तु स तमादाय तत्र गच्छेत्, गत्वा स पूर्वमेव आहारमालोकयेद् दर्शयेद् ब्रूयाच्च - आयुष्मन्तः श्रमणाः ! इदं युष्माकं अशनं वा ४ सर्वजनार्थं निसृष्टं दत्तं तद् भुङ्क्ष्वं वा यावत् परिभजध्वं वा, अथ एवं वदन्तं परो ब्रूयात् - आयुष्मन् ! श्रमण! त्वमेव परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदायं विधिः - स तत्र परिभाजयन् नैव आत्मनः प्रचुरं २ शाकं २ उच्छ्रितं वर्णादिगुणोपेतं २ रसिकं २ मनोज्ञं २ स्निग्धं २ रूक्षं २ गृह्णीयात् स तत्र अमूर्च्छितः अगृद्धः अग्रथितः अनध्युपपन्नः अनासक्तः सन् बहुसममेव परिभाजयेत्, अथ परिभाजयन्तं परो वदेत् - आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, सर्वे वा एकत्रिताः स्थितास्तु भोक्ष्यामहे वा पास्यामो वा, स तत्र भुञ्जानो नैव आत्मना प्रचुरं २ यावद् रूक्षं भुञ्जीत स तत्र अमूर्च्छितो ४ बहुसममेव भुञ्जीत वा पिबेद् वा ।। २९ ।। इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह - सेभिक्खू वा. से जं पुण जाणिज्जा असणं वा माहणं वा गामपिंडोलगं वा अतिहिं बा पुब्वपविट्ठ पेहाए नो ते उवाइक्कम्म पविसिज्ज वा ओभासिज्ज वा, से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिट्टिज्जा, अह पुणेवं जाणिज्जा - पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज्ज वा ओभासिज्ज वा एयं. सामग्गियं. ।।सूत्र - ३० ।। ।। पिण्डैषणायां पञ्चम उद्देशकः ।। स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयात् - गृहपतिकुले श्रमणं वा ब्राह्मणं वा वनीपकं वा अतिथिं वा पूर्वं प्रविष्टं प्रेक्ष्य नैव तान् उपातिक्रम्य प्रविशेद् वा अवभाषेत याचेत वा, स तमादाय अवगम्य एकान्तं अपक्रामेद्, अपक्रम्य च अनापाताऽसंलोके च तिष्ठेत्, अथ पुनरेवं जानीयात् प्रतिषिद्धे वा दत्ते वा, ततस्तस्मिन् निवृत्ते संयत एव प्रविशेद् वा अवभाषेत वा एवं सामग्र्यं सम्पूर्णो भिक्षुभावः ।। ३० ।। आचाराङ्गसूत्रम् ।। इति पञ्चमोद्देशकः समाप्तः ।। १८
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy