SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ शष्कुलिं वा फाणितं द्रवगुड वा पूपं वा शिखरिणीं वा, तद् पूर्वमेव भुक्त्वा पीत्वा पतद्गहं च संलिख्य संमृज्य ततः पश्चाद् भिक्षुभिः सार्धं गृहपतिकुलं प्रवेक्ष्यामि वा निष्क्रमिष्यामि वा, इत्यभिसन्धिना मातृस्थानं मायां संस्पृशेत्, तन्नैवं कुर्यात् । कथं च कुर्यादित्याह - स भिक्षुस्तत्र भिक्षुभिः सार्धं कालेन अनुप्रविश्य तत्र इतरेतरेभ्यः सामुदानिकं भिक्षापिण्डम् एषणीयं वैषिकं केवलवेषप्राप्तं धात्रीदूतीनिमित्तादिपिण्डदोषरहितं पिण्डपातं भैक्षं प्रतिगृह्य प्राधूर्णकादिभिः सह आहारम् आहारयेद्, एतत् खलु तस्य भिक्षोर्वा भिक्षुण्या वा सामग्र्यं समग्रः सम्पूर्णो भिक्षुभावः ।।२४।। ।। इति प्रथमस्य चतुर्थोद्देशकः समाप्तः ।। अथ पिण्डैषणाऽध्ययने पञ्चमोद्देशकः अधुना पञ्चमः समारभ्यते इहानन्तरोद्देशके पिण्डग्रहणविधिरुक्तः, अत्रापि स एवाभिधीयत इत्याह - सेभिक्खू वा २ जाव पविठ्ठे समाणे से जं पुण जाणिज्जा - अग्गपिंड उक्खिप्यमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पेहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइज्जमाणं पेहाए अग्गपिंडं परिभुंजमाणं पेहाए अग्गपिंडं परिट्ठविज्जमाणं पेहाए पुरा असिणाइ वा अवहाराइ वा पुरा जत्थऽऽण्णे समण. वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खवं २ उवसंकमामि, माइट्ठाणं संफासे, नो एवं करेज्जा ।। सूत्र- २५ ।। स भिक्षुर्वा यावत् प्रविष्टः सन् स यत्पुनर्जानीयात् - अग्रपिण्डं देवताद्यर्थम् उत्क्षिप्यमाणं प्रेक्ष्य अग्रपिण्डं निक्षिप्यमाणं प्रेक्ष्य, अग्रपिण्डं ह्रियमाणं प्रेक्ष्य, अग्रपिण्डं परिभज्यमानं प्रेक्ष्य, अग्रपिण्डं परिभुज्यमानं प्रेक्ष्य, अग्रपिण्डं परिष्ठाप्यमानं परित्यज्यमानं चतुर्दिक्षु क्षिप्यमाणं प्रेक्ष्य तथा पूर्वमन्ये श्रमणादयः अशितवन्तो भुक्तवन्तो वा अपहृतवन्तो व्यवस्थयाऽव्यवस्थया वा गृहीतवन्तो वा इत्यभिप्रायेण पूर्वं यत्र अन्ये श्रमणा यावद् वनीपका याचकाः शीघ्रं शीघ्रमुपसंक्रामन्ति स भिक्षुः - एतद् दृष्ट्वाऽऽलोचयेद् हन्त! अहमपि शीघ्रं शीघ्रमुपसंक्रमामि, एवं स भिक्षुर्मातृस्थानं मायां संस्पृशेद्, नैवं कुर्यात् ||२५|| साम्प्रतं भिक्षाटनविधिप्रदर्शनार्थमाह सेभिक्खू वा. जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगाणि वा सति परक्कमे संजयामेव परिक्कमिजा, नो उज्जुयं गच्छिज्जा केवलीबूया आयाणमेयं, से तत्थ परक्कममामे पयलिज्ज वा पक्खलेज्ज वा पवजिज्ज वा, से तत्थ पयलमाणे वा पक्खलेज्जमाणे वा पवडमाणे वा तत्थ से का उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा आचाराङ्गसूत्रम् १५
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy