SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ नोपन्नस्स निक्खमणपवेसाए नो पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, से एवं नच्चा तहप्पगारं पुरेसंखडि वा पच्छासंखलिं वा संख िसंखडिपडियाए नो अभिसंधारिज्जा गमणाए । से भिक्खू वा. से जं पुण जाणिज्जा मंसाइयं वा मच्छाइयं वा जावहीरमाणं वा पेहाए अंतरासेमग्गा अप्पा पाणा जावसंताणगानो जत्थ बहवे समण. जाव उवागमिस्संतिअप्पाइन्ना वित्तीपन्नस्स निक्खमणपवेसाए पन्नस्स वायणपुच्छणपरियट्टणाणुप्पेहधम्माणुओगचिंताए, सेवं नच्चा तहप्पगारं पुरेसंखलिं वा पच्छासंखलिं वा अभिसंधारिज्ज गमणाए ।। सूत्र-२२ ।। स भिक्षुर्वा यावत् सन् स यत् पुनर्जानीयात् मांसादिकं वा मत्स्यादिकं वा मांसखलं यत्र मांसं शोष्यते शुष्कं वा पुञ्जीकृतमास्ते तद् वा मत्स्यखलं वा आहेणं विवाहोत्तरकालभोजनं वा पहेणं वध्वा नीयमानाया यत्पितृगृहभोजनं वा हिंगोलं मृतकभक्तं यक्षादियात्राभोजनं वा संमेलं परिजनसन्मानभक्तं गोष्ठीभक्तं वा संखडितः केनचित्स्वजनादिना ह्रियमाणं प्रेक्ष्य तत्र भिक्षार्थं न गच्छेद् यतस्तत्र अन्तरा तस्यमार्गा बहुप्राणा बहुवीजा बहुहरिता बह्नवश्याया बहूदका बहूत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानकाः। बहवस्तत्र श्रमणब्राह्मणाऽतिथिकृपणवनीपनका उपागता उपागमिष्यन्ति, उपागच्छन्ति। तत्राऽऽकीर्णा वृत्तिः, अतस्तत्र न प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, न प्राज्ञस्य वाचनापृच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, स एवं ज्ञात्वा तथाप्रकारांपुरःसंखडिं वा पश्चात्संखडिं वा संखडिंसंखडिप्रतिज्ञया नाऽभिसंधारयेद् गमनाय । स भिक्षुर्वा स यत् पुनर्जानीयात् - मांसादिकं वा मत्स्यादिकं वा यावद् ह्रियमाणं वा प्रेक्ष्य अन्तरा तस्य मार्गा अल्पप्राणा यावत् सन्तानका अत्र सर्वत्राल्पशब्दोऽभाववाचको ज्ञेयः। तथा - न यत्र बहवः श्रमणादयो यावत् उपागमिष्यन्ति । अतस्तत्र अल्पाकीर्णा वृत्तिः, सा च प्राज्ञस्य निष्क्रमणप्रवेशाय, प्राज्ञस्य वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै युक्ता । स एवं ज्ञात्वा मांसादिदोषपरिहरणसमर्थः सति कारणे तथाप्रकारांपुरःसंखडिं वा पश्चात्संखडिं वाऽभिसंधारयेद् गमनाय ।। सूत्र-२२ ।। भिक्षागोचरविशेषमधिकृत्याह - से भिक्खू वा २ जाव पविसिउकामे से जं पुण जाणिज्जा खीरिणियाओ गावीओ खीरिज्जमाणीओ पेहाए असणं वा ४ उवसंखडिज्जमाणं पेहाए पुराअप्पजूहिए सेवं नच्चा नो गाहावाकुलं पिंडवायपडियाए निक्खमिज्ज वा पविसिज्ज वा। से तमावाय एगंतमवक्कमिज्जा अणावायमसंलोए चिट्ठिज्जा, अह पुण एवं जाणिज्जा खीरिणियाओ गावीओ खीरियाओ पेहाए असणं वा ४ उवक्खनियं पेहाए पुराए जूहिए सेवं नच्चा तओ संजयामेव गाहा. निक्खमिज्ज वा२ ।। सूत्र-२३ ।। सभिक्षुर्वा यावत् प्रवेष्टुकामः सन् यत् पुनर्जानीयात् क्षीरिण्यो गावोऽत्र दुह्यमाना इति प्रेक्ष्य - आचारागसूत्रम् १३
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy