SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिच्चं वा अच्छिज्जं वा अणिसिटुंवाअभिहवा आहट्ट विज्जमाणं जिज्जा, अस्संजए भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियदुवारियाओ कुज्जा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुज्जा, समाओ सिज्जाओ विसमाओकुज्जा, विसमाओ सिज्जाओ समाओकुज्जा, पवायाओ सिज्जाओ निवायाओकुज्जा, निवायाओ सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिविय छिविय वालिय वालिय संथारगं संथरिज्जा, एस विलंगयामो सिज्जाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिंवा पच्छासंखडिंवा संखडि संखउिपडियाए नो अभिसंधारिज्जा गमणाए ४ एयं खलु तस्स भिक्खुस्स जाव सया जए ति बेमि ।। सूत्र-१३ ।। ।। पिण्डषणाध्ययने द्वितीय उद्देशकः ।। स भिक्षुर्वा २ परम् अर्धयोजनमर्यादया संखडिं- विवाहादिशुभाशुभनिमित्तभोजनादिकं ज्ञात्वा संखडिप्रतिज्ञया नाऽभिसन्धारयेद् गमनाय । स भिक्षुर्वा २ प्राचीनां पूर्वस्यां दिशि संखडिं ज्ञात्वा प्रतीचीनम् अपरदिग्भागं गच्छेद अनाद्रियमाणः, प्रतीचीनां संखडिं ज्ञात्वा प्राचीनं गच्छेद अनाद्रियमाणः, दक्षिणां संखडिं ज्ञात्वा उदीचीनम् उत्तरस्यां दिशि गच्छेद् अनाद्रियमाणः, उदीचीनं संखडिं ज्ञात्वा दक्षिणं गच्छेद अनाद्रियमाणः, यत्रैव सा संखडिः स्यात्, तत्र न गन्तव्यमिति भावः, तद्यथा-ग्रामे वा नगरे वा खेटे वा कर्बटे वा मडम्बे वा पत्तने वा आकरे वा द्रोणमुखे वा नैगमे वा आश्रमे वा सन्निवेशे वा यावद राजधान्यां वा संखडिं संखडिप्रतिज्ञया नाभिसंधारयेद् गमनाय, यतः केवली ब्रूयात्-आदानमेतत् - कर्मोपादानमेतत् पाठान्तरमाश्रित्य 'आययणमेयं' आयतनमेतत् स्थानमेतदोषाणाम, संखडिं संखडिप्रतिज्ञया अभिधारयन् आधाकर्मिकं वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकम् - उच्छिन्नकं वा आच्छेद्यं बलाद गृहीतं वा अनिसृष्टं वा अभ्याहृतं वाऽऽहृत्य दीयमानं भुज्जीत। किञ्च-असंयतो गृहस्थः श्रावक: भिक्षुप्रतिज्ञया वसतीः क्षुद्रद्वारा महाद्वाराः कुर्यात, महाद्वाराः क्षुद्रद्वाराः कुर्यात्, समाः शय्याः विषमाः कुर्यात्, विषमाः शय्याः समाः कुर्यात, प्रवाताः शय्याः निवाताः कुर्यात, निवाताः शय्याः प्रवाताः कुर्यात् अन्तर्वा बहिरुपाश्रयस्य हरितानि छित्त्वा छित्त्वा दारयित्वा दारयित्वा उपाश्रयं संस्कुर्यात्, संस्तारकं वा संस्तारयेत् यथा एष साधुः-निर्ग्रन्थो विलुंगहामो देश्यः अकिञ्चन इति शय्यां संस्कारयेत्, तस्मात् स संयतो निर्ग्रन्थस्तथाप्रकारं पुरःसंखडिं जातनामकरणविवाहादिकामनागतां वा पश्चात्संखडिं मृतकसम्बन्धिनीमतीतां वा संखडिं संखडिप्रतिज्ञया नाऽभिसंधारयेद् गमनाय, एतत् खलु तस्य भिक्षोः सामग्र्यं पूर्ववद् यावत् सदा यतेतेति ब्रवीमि ||१३।। ।। इति पिण्डैषणाध्ययने द्वितीय उद्देशकः समाप्तः ।। पिण्डेषणाऽध्ययने तृतीय उद्देशकः . भाचारागसूत्रम्
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy