SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ घ्राणतो जीवो मनोज्ञाऽमनोज्ञान गन्धानाजिघ्रतीति तृतीया भावना ।।३।। अथाऽपरा चतुर्थी भावना - जिह्वातो जीवो मनोज्ञाऽमनोज्ञान रसानास्वादयति। मनोज्ञाऽमनोज्ञेषु रसेषु न सञ्जत यावन्न विनिघातमापद्येत । केवली ब्रूयाद् - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु रसेषु सञ्जमानो यावद विनिघातमापद्यमानः शान्तिभेदाद यावद भ्रंशेत। .. न शक्यो रसः अस्वादयितुं जिह्वाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ||१३४।। जिह्वातो जीवो मनोज्ञाऽमनोज्ञरसानास्वादयतीति चतुर्थी भावना ||४|| अथाऽपरा पञ्चमी भावना - स्पर्शेन्द्रियतो जीवो मनोज्ञाऽमनोज्ञान स्पर्शान् प्रतिसेवते। मनोज्ञाऽमनोज्ञेषु स्पर्शेषु न सञ्जत यावन्न विनिघातमापद्येत। केवली ब्रूयाद् - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु स्पर्शेषु सञ्जमानो यावद् विनिघातमापद्यमानः शान्तिभेदात् शान्तिप्रधानकेवलिप्रज्ञप्ताद्धर्मा भ्रंशेत। न शक्यः स्पर्शः अवेदयितुं स्पर्शविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत्। स्पर्शेन्द्रियतो जीवो मनोज्ञाऽमनोज्ञान स्पर्शान् प्रतिसंवेदयतीति पञ्चमी भावना ||५|| एतावतैव पञ्चमं महाव्रतं सम्यगवस्थितमाज्ञयाऽऽराधितं चाऽपि भवतीति पञ्चमं भदन्त! महाव्रतम्। इत्येतैः पञ्चमहाव्रतैः पञ्चविंशत्या च भावनाभिः सम्पन्नः अनगारो यथाश्रुतं यथाकल्पं यथामार्गं सम्यक कायेन स्पृष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वाऽऽज्ञयाऽऽराधयिता चापि भवति ||१७९।। ।। भावनाध्ययनं समाप्तं पञ्चदशम्। समाप्ता च तृतीया चूडा ।। आचारागसूत्रम् १३२
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy