SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मूलगुणाऽशुद्धं स्थण्डिलं पुरुषान्तरकृतं यावद् अपुरुषान्तरकृतं मूलगुणाऽशुद्धं बहिर्निर्गतं वा बहिरनिर्गतं वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले उच्चारप्रश्रवणं न व्युत्सृजेत्। स भिक्षुर्यत् पुनर्जानीयाद्बहून श्रमणान् वा ब्राह्मणान् वाऽतिथीन वा कृपणान् वा वनीपकान - याचकान् वा समुद्दिश्य प्राणिनो भूतानि जीवान सत्त्वान् समारभ्य यावदुद्दिश्य चेतयति- करोति, तथाप्रकारं स्थण्डिलं पुरुषान्तरकृतं येन साध्वादीनुद्दिश्य कृतं स्थण्डिलं स एव ददाति तर्हि अपुरुषान्तरकृतं, तस्मादपरः पुरुषस्तद्ददाति तर्हि तत्पुरुषान्तरकृतं यावद् बहिरनिर्हतं अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले न उच्चारप्रश्रवणं व्युत्सृजेत् । अथ पुनरेवं जानीयात् - अपुरुषान्तरकृतं यावद् बहिर्निर्हतमन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले वा नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुर्यत् पुनर्जानीयाद - अस्वप्रतिज्ञया साध्वादिप्रतिज्ञया स्थण्डिलं कृतं वा कारितं वोच्छिन्नं वा छन्नं वा घृष्टं वा मृष्टं वा लिप्तं वा संमृष्टं वा सम्प्रधूमितं वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुर्वा तत्र यत्पुनः स्थण्डिलं जानीयाद - इह खलु स्थण्डिले गृहपतिर्वा गृहपतिपुत्रा वा कन्दानि वा यावद हरितानि वाऽन्तस्तो बहिर्निष्काशयन्ति बहिस्ताद्वाऽन्तः संहरन्ति, अन्यतरस्मिन् वा तथाप्रकारे वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - स्कन्धे वा पीठके वा मशके वा माले वाऽट्टे - हट्टे वाऽपणे वा प्रासादे वाऽन्यतरस्मिन् वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - अनन्तर्हितायां सचित्तायां पृथिव्यां सस्निग्धायां पृथिव्यां सरजस्कायां पृथिव्यां मृत्तिकायां मक्कडायां लूतातन्तुजाले चित्तवत्यां शिलायां चित्तवति लोष्ठे वा कोलावासे घुणावासे वा दारुणि वा जीवप्रतिष्ठिते वा यावन मर्कटसन्ताने वाऽन्यतरस्मिन् वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत् ||१६५।। अपि च - से भि. से जं. जाणे. - इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसासुिवा परिसािित वा परिसानिस्संति वा अन्न तह. नो उ. । से भि. से जं. इह खलु गाहावई वा गा. पुता वा सालीणि वा बीहीणि वा मुग्गाणि वा मासाणिवा कुलत्थाणि वाजवाणिवाजवजवाणिवापइरिसुवापइरिति वा पारिस्संति वा अन्नयरंसि वा तह. थंजि. नोउ.सेभि.२ जं. आमोयाणिवाघासाणिवा भिलयाणिवा विज्जलयाणि वाखाणुयाणि वा कल्याणिवा पगगणिवा वरीणि वा पदुग्गाणि वासमाणिवा विसमाणि वा अन्नयरंसि तह. नोउ । सेभिक्खू से जं.पुणथंडिल्लंजाणिज्जा माणुसरंधणाणिवा महिसकरणाणिवावसहक. अस्सक. कुक्कुडक. मक्कडक हयक. लावयक, चट्टयक. तितिरक. कवोयक. कविंजलकरणानि वा अन्नयरंसि वा तह. नो उ.। से जं. जाणे बेहाणसट्ठाणेसु वा गिद्धपट्टठा. तरुपरणट्ठाणेसु वा मेरुपडणठा. विसभक्खणयठा. अगणिपणट्ठा. अन्नयरंसि वा तहनो उ. से भि. सेजं. आरामाणि वा उज्जाणानि वा वणाणि वा वणसंगणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्न. तह. नो उ.। से भाचारागसूत्रम् १०१
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy