SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ नो उग्गिहिज्ज वा २ । स भिक्षुस्तत्र यमवग्रहं जानीयात् तथाहि - अनन्तर्हितायाम् अव्यवहितायां सचित्तपृथिव्यां यावत् सन्तानके तन्तुजाले तथाप्रकारे अवग्रहं न गृह्णीयाद् वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात्, तथाहि-स्थूणायां वा गृहैलुके वा उसूयाले उदूखले वा कामजले स्नानपीठे वा तथाप्रकारे अन्तरिक्षजाते दुर्बद्धे यावत् न गृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात्, तथाहि - कुङ्ये वा भित्त्यां वा शिलायां वा लेष्टौ वा तथाप्रकारे अन्तरिक्षजाते यावन् नो अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । भि. खंसि वा ४ अन्नयरे वा तह. जाव नो उग्गहं उग्गिण्हिज्ज वा २ । से भि० से जं पुण. ससागारियं. सखुड्डुगपसुभत्तपाणं नो पन्नस्स जाव सेवं नच्चा । से भि० से जं. इह खलु गाहावई वा जाव कम्मकरीओ वा अन्नमन्नं अक्कोसंति वा तहेव तिल्लादि सिणाणादि सीओवगवियजादि निगिणाइ वा जहा सिज्जाए आलावगा नवरं उग्गहवत्तब्वया । से भि. से जं. आइन्नसंलिक्खे नो पन्नस्स. उग्गिण्हिज्ज वा २, एयं खलु ।। सूत्र० १५८ ।। ।। उग्गहपडिमाए पढमो उद्देसो समत्तो ।। भिक्षुः स्कन्धे वा मञ्च वा माले वा प्रासादे वा हर्म्ये वाऽन्यतरस्मिन् वा तथाप्रकारे यावद् अन्तरिक्षजाते दुर्बद्धादौ नो अवग्रहम् अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुर्वा तत्र यं पुनः अवग्रहं जानीयात् - ससागारिकं सगृहस्थादिकं सक्षुल्लकपशु भक्तपानं सबालादिकं तत्र प्राज्ञस्य निष्क्रमणप्रवेशार्थं यावद् धर्मानुयोगचिन्तार्थं स्वाध्यायचिन्तार्थं स्थानादि नैव कल्पतेऽतः स एवं ज्ञात्वा तथाप्रकारे प्रतिश्रये ससागारिके नैवाऽवग्रहम् अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात्, तथाहि-तत्र गृहपतिकुलस्य मध्यंमध्येन गन्तुं पन्थाः प्रतिश्रयं वा गृहस्थगृहेण प्रतिबद्धं वा तत्र प्रतिश्रये नो प्राज्ञस्य यावत् स्थानादि कल्पतेऽतः स भिक्षुः एवं ज्ञात्वा तथाप्रकारे प्रतिश्रये नैवावग्रहं अवगृह्णीयाद्वा प्रगृह्णीयाद्वा । स भिक्षुस्तत्र यं पुनः अवग्रहं जानीयात् तथाहि-इह खलु गृहपतिर्वा यावत् कर्मकर्यो वाऽन्योन्यमाक्रोशन्ति वा यावद् उपद्रवन्ति वा नो प्राज्ञस्य स्थानादि कल्पते, इत्यादि तथैव अन्योन्यं गात्रं तैलेन वा नवनीतेन वा घृतेन वा वसया वाऽभ्यञ्जन्ति वा प्रक्षन्ति वा नो प्राज्ञस्येत्यादि एवमन्योन्यं गात्रं स्नानेन वा कल्केन वा लोध्रेण वा वर्णेन वा चूर्णेन वा पद्मेन वा आघर्षन्ति वा प्रघर्षन्ति वा उद्वलन्ति वा उद्वर्तयन्ति वा नो प्राज्ञस्येत्यादि तथैव अन्योन्यं गात्रं शीतोदकविकटेन वा उष्णोदकेन वा उत्क्षालयन्ति वा प्रधावन्ति वा सिञ्चन्ति वा स्नापयन्ति वा नो प्राज्ञस्येत्यादि तथा तत्र गृहपतिर्वा कर्मकर्यो वा नग्ना वा स्थिता नग्ना उपलीना मैथुनधर्मं विज्ञापयन्ति रहस्यं वा मन्त्रं मन्त्रयन्ते नो प्राज्ञस्य स्थानादि कल्पतेऽतः तथाप्रकारमवग्रहं न गृह्णीयाद्वा प्रगृह्णीयाद्वा इत्यादि यथा शय्यायां आलापकाः तथैव सर्वं वक्तव्यम् नवरम् अवग्रहवक्तव्यता इत्युल्लेखेन । स भिक्षुर्वा तत्र यं पुनः अवग्रहं जानीयात्, तथाहि - आकीर्णसंलेख्यं चित्रशालारूपम् नो प्राज्ञस्य स्थानादि कल्पते इति पूर्ववन्नेयम् यावत् तथाप्रकारम् अवग्रहं नो अवगृह्णीयाद्वा प्रगृह्णीयाद्वा एतत् आचाराङ्गसूत्रम् ९३
SR No.022574
Book TitleAcharang Sutram Shrutskandh 02
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year2002
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy