________________
॥ अध्ययनं-६ : उद्देशकः-२ ॥ अनन्तरं स्वजनविधूननमुक्तं तच्च सफलं स्यात्यदि कर्मधूननं स्याद् कर्मविधूननार्थमिदमुपक्रम्यते -
आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिचा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला ॥सू० १७८॥
आतुरं लोकं ज्ञानेनाऽऽदाय ज्ञात्वा, त्यक्त्वा पूर्वसंयोगं, हित्वा-गत्वा उपशमम्, उषित्वा च ब्रह्मचर्ये वसुर्वा - साधुः अनुवसुर्वा श्रावको वा ज्ञात्वाऽपि धर्मं यथातथा, अथैके मोहोदयात् कुशीला तं पालयितुं न शक्नुवन्तीति ॥१७८॥
एवम्भूताश्च सन्तः किं कुर्युरित्याह -
वत्थं पडिग्गहं कंबलं पायपुछणं विउसिज्जा, अणुपुब्वेण अणहियासेमाणा परीसहे दुरहियासए, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्ना चेए ॥सू० १७९॥
वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनं व्युत्सृजेयुः । कथं चेत्, अनुपूर्वेण-परिपाट्या यौगपद्येन वाऽनधिसहमानाः परीषहान् दुरधिसह्यान् । ततश्च कामान् ममायमानस्य इदानी वा मुहूर्तेन वाऽपरिमाणाय कालाय शरीरस्य भेदो भवति कण्डरिकस्येव । एवं स आन्तरायिकैः - बहुप्रत्यपायैः कामैः न केवलमकेवलं तत्र भवैः आकेवलिकैः सद्वन्द्वैः असम्पूणैर्वा संसारमवतीर्णः, यदिवा आन्तरायिकान् कामान् आकेवलिकानवतीर्णाश्चैते भोगाभिलाषिणः । कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्पर्यार्थः ॥१७९।।
अपरे त्वासनतया मोक्षस्य कथञ्चिदवाप्य चरणपरिणामं प्रवर्धमानाध्यवसायिनो भवन्तीत्याह -
अहेगे धम्ममायाय आयाणप्पभिइसु पणिहिए चरे अप्पलीयमाणे दढे सब्बं गिद्धिं परिन्नाय, एस पणए महामुणी, अइअच्च सबओ संगं न महं अत्थित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिपुसिए संचिक्खइ ओमोयरियाए, से आकुढे वा हए का लुंचिए वा पलियं पकत्थ अदुवा पकत्थ अतहेहिं सद्दफासेहिं इय संखाए एगयरे अन्नयरे अभिन्नाय तितिक्खमाणे परिब्बए जे य हिरी जे य अहिरीमाणा (मणा) ॥सू० १८० ॥
श्री आचारागसूत्रम् (अक्षरगमनिका) *
७५