________________
मोक्षसन्धिः - ज्ञानादिको झोषितः - सेवितः कर्मसन्धिर्वा क्षपितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिटुझेष्यो भवति । तस्माद् ब्रवीमि नो निहन्यात्- निगूहयेद् वीर्यमिति ॥१५२।।
कश्चैवंभूतः स्यादित्याह -
जे पुबुलाइ नो पच्छानिवाई, जे पुबुट्ठाइ पच्छानिवाइ, जे नो पुबुट्ठायी नो पच्छानिवाइ, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति ॥१५३॥
यः पूर्वोत्थायी नो पश्चान्निपाती-सिंहतया निष्क्रान्तः सिंहतया विहारी । यः पूर्वोत्थायी पश्चान्निपाती - नन्दिषेणवत् । तृतीयभङ्गस्य चाभावादनुपादानं स चायम्-जे नो पुव्वुट्ठायी पच्छानिवाती । यो नो पूर्वोत्थायी नो पश्चान्निपाती-चतुर्थभङ्गोऽयं सम्यग्विरतेरभावात् गृहस्थाः शाक्यादयो वा तेषामाश्रवद्वाराणामुभयेषामप्यसंवृतत्वात् उदायिनृपमारकवत् सोऽपि तादृशः स्यात् शाक्यादयोऽपि गृहस्थतुल्या एव । ये- स्वयूथ्याः पार्श्वस्थादयो उभयपरिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थं तमेव लोकमन्वेषयन्ति तेऽपि गृहस्थतुल्या एव भवेयुरिति ।।१५३॥
स्वमनीषिकापरिहारार्थमाह -
एवं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुवावररायं जयमाणे, सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे, इमेण चेव जुज्झाहि किं ते जुझेण बज्झओ ? ॥१५४॥ ___ एतद्-उत्थानपतनादिकं ज्ञात्वा मुनिना -तीर्थकृता प्रवेदितम् । इहमौनीन्द्रप्रवचने आज्ञाकाङ्क्षी पण्डितः अस्निहः पूर्वापररात्रं यतमानः सदाचारमाचरेत् । किंच - सदा शीलं सम्प्रेक्ष्य श्रुत्वा भवेद् अकामः अझञ्झः, अनेनैव स्वैरिणा शरीरेण सार्धं युद्धस्व किं ते युद्वेन बाह्यतः ? नातोऽपरं दुष्करमस्तीति ॥१५४॥
किंत्वियमेव सामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि दुष्पापेति दर्शयितुमाह -
जुद्धारिहं खलु दुल्लहं, जहित्य कुसलेहिं परिन्नाविवेगे भासिए, चुए हु बाले गन्भाइसु रज्जइ अस्सिं चेयं पवुचइ, रूवंसि वा, छणंसि वा से हु एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिणाय सब्बसो से न हिंसइ, संजमइ नो पगभइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारंभे कंचणं सबलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु ॥१५५॥
६२
* श्री आचारागसूत्रम् (अक्षरगमनिका)