SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाता भवंति, तं परिण्णाय मेहावी नेव सयं पुढवीसत्थं समारंभेजा, णेवण्णेहिं पुढविसत्थं समारंभावेजा, णेवण्णे पुढविसत्थं समारंभंते समणुजाणेजा, जस्सेते पुढविकम्मसमारंभा परिण्णाता भवंति, से हु मुणी परिणातकम्मे त्ति बेमि ॥१८॥ अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति तत् परिज्ञाय मेधावी नैव स्वयं पृथिवीशस्त्रं समारभेत, नैव अन्यैः पृथिवीशस्त्रं समारम्भयेत, नैव अन्यान् पृथिवीशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते पृथिवीकर्मसमारम्भाः परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मेति ब्रवीमि ॥१८॥ ॥ शस्त्रपरिज्ञाध्ययने तृतीयोद्देशकः ॥ इहानन्तरोद्देशके पृथिवीकायजीवाः प्रतिपादिताः । साम्प्रतं क्रमायातस्याप्कायस्य जीवत्वं यथा च संपूर्णो मुनिर्भवति तथा प्रतिपाद्यते : से बेमि से जहावि अणगारे उजुकडे नियायपडिवण्णे अमायं कुबमाणे वियाहिए ॥१९॥ स यथा अनगारो भवति तथाऽहं ब्रवीमि - ऋजुकृत्- संयमानुष्ठायी नियागप्रतिपन्नः नियागः- अधिको याग: संयमस्तं प्रतिपन्नः । 'निकायं पडिवन्ने' इति पाठान्तरं चाश्रित्य मोक्षं प्रतिपन्नः अमायां कुर्वाणो मुनिर्व्याख्यात इति ॥१९॥ तदेवमसावुद्धृतसकलमायापल्लीवितानः किं कुर्यादित्याहजाए सद्धाए निक्खंतो तमेव अणुपालिजा वियहित्ता विसोत्तियं ॥२०॥ यया श्रद्धया निष्क्रान्तस्तामेव अनुपालयेद् विहाय विस्रोतसिकां - अपकायजीवत्वशङ्कां क्रोधादिरूपां वा । 'वियहित्ता पूव्वसंजोयं' इति पाठान्तरमाश्रित्य - विहाय पूर्वसंयोगं पश्चात्संयोगं चेति ॥२०॥ एतत्सम्यग्दर्शनाद्यनुष्ठानमन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाहपणया वीरा महावीहिं ॥२१॥ प्रणताः अभिमुखीभूताः वीराः - पूर्वमहापुरुषा महाविथिं मोक्षमार्गमिति ॥२१॥ श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ७
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy