________________
कण्ठ्यम एवं सति स साधु ग्लानोऽपि जीवितनिष्पिपासुः पूर्वमेव आलीचयेत् - अभ्याहृतादिकं ज्ञात्वा प्रतिषेधयेत्, तद्यथा-आयुष्मन ! न खलु मे कल्पते अभिहृतम् अशनं वा ४ भोक्तुं वा पातुं वा अन्यद् वैतत्प्रकारमाधाकर्मादिदोषदुष्टमिति ॥२१३।।
किच
जस्स णं भिक्खुस्त अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहि गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहि कीरमाणं वेयावडियं साइज्जिस्सामि, अहं वावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुञा वेयावडियं करणाए । आहटु परिन्नं अणुक्खिस्सामि आहडं च साइन्जिस्सामि १, आहटु परिन्नं आणक्खिस्सामि आहडं च नो साइजिसामि २, आहटु परिन्नं नो आणक्खिस्सामि आहडं च साइज्जिस्सामि ३, आह? परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि ४, एवं से अहाकिट्टियमेव धम्मं समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थवि तस्स कालपरियाए से तत्थ विअंतिकारए, इचेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं त्ति बेमि ॥सू० २१४॥
यस्य परिहारविशुद्धिकस्य यथालन्दिकस्य वा भिक्षोरयं प्रकल्पःआचारः, तद्यथा- अहं च खलु प्रतिज्ञप्तः- परैर्विज्ञप्तो मया चाऽप्रतिज्ञप्तैः-अनभ्यर्थितैगर्लानः सन्नग्लानैर्निर्जरामभिकाङ्ग्य साधर्मिकैः क्रियमाणं वैयावृत्त्यं स्वादयिष्यामि अभिलषिष्यामि । अहं च पुनः खलु अप्रतिज्ञप्तः-अनुक्तः प्रतिज्ञप्तस्य-वैयावृत्यकरणायोक्तस्याऽग्लानः सन् ग्लानस्य निर्जरामभिकाङ्ख्य साधर्मिकस्य कुर्यां वैयावृत्यमुपकारस्य करणाय । तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्याद् न पुनः प्रतिज्ञामिति भावार्थः ___इदानीं प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह-एकः कश्चिदेवंभूतामाहृत्यगृहीत्वा प्रतिज्ञां वैयावृत्यं कुर्यात्, तद्यथा-अन्वेषयिष्यामि ग्लानस्यापरस्याहारादिकम्, तथाऽपरेण चाहृतम् - आनीतं स्वादयिष्यामि ॥१॥ तथाऽपर आहृत्य प्रतिज्ञाम् तद्यथा-अन्वीक्षिष्ये आहारादिकम् अपरनिमित्तम, तथाऽपरेणाहृतं च न स्वादयिष्यामि ॥२॥ तथाऽपर आहृत्य प्रतिज्ञाम्, तद्यथा-नान्वीक्षिष्यामि आहारादिकमपरनिमित्तं स्वादयिष्यामि
९४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)