________________
श्री जगडूशाह-चरित्रम् महाजनानामुपदेशा इतरजनेषु तत्कालमेव सफलीभवन्तीति सत्योक्तेर्महिमाऽपूर्वैवास्ति। ईदृशामल्पीयानप्युपदेशो लोकानामन्तष्करणेऽद्भुतां चमत्कृतिं जनयति। अत एव विजयोक्तवचनानां प्रभावः प्रीतिमत्या अन्तःकरणे पपात। ____ अथ प्रीतिमत्याह - सखि विजये! त्वादृश्याः सख्याः साहचर्येण सदुपदेशेन च मदीयमानसोद्वेगः स्वल्पीभविष्यति। जीवनमपि मदीयमस्मिल्लोके किलादर्शतां व्रजिष्यतीति सम्भाव्यते। तावकी जीवनमहत्ता उच्चस्तरो विचारश्च मह्यं रोरुच्यते। कालेऽस्मिन् जगत्यामस्यां त्वादृशी विद्वत्तमा नारी सकलललनाऽऽदर्शभूता वनितासमाजेऽत्रावश्यमपेक्ष्यते तदुपदेशदानाय। अभूच्चाद्य त्वदुदितं वचस्तथ्यम्। पुरा त्वमेकदा किलैवं जगदिथयत्कामिनीनां परिणयने प्रायो दुःखमेव जायते, या हि परिणीयते नूनमेषा दुःखानां महागत एव निपतति, तदेतत्सर्वमहं निश्चितं पश्यामि। तदकुर्वती त्वमत्र लोके नितरां सुखिनी वर्त्तसे, जीवनमपीदमदुष्टं सुखेन गमयसि। सखि! पश्य पश्य क्व ते जीवनं प्रशस्यतमम्, क्व मामकं तत्, उभयोर्महीयान् भेदोऽस्ति। लोकेऽस्मिँस्तावकं स्थानमत्युच्चकोटौ वर्तते, भवच्चित्तमतिशुद्धमदोषमस्ति। मामकं मनस्तु नानाविधार्तध्यानरतं विद्यते। त्वमिदानीन्तनरमणीसमाजे सकले मुकुटायसे, ते चरणरेणुतुल्याप्यहं नास्मि। कियन्निगदामि नूनमहं दुःखसन्तापशोकाकुलीभूता महता कष्टेन जीवामि। शोकसागरमग्नाप्यहं मनः स्थिरयितुं सततं यतमाना तिष्ठामि च। परन्तु निसर्गतश्चपलं दुर्ग्रहमिदं मनः पुरातनी प्रियतमवात्ता पौनःपुन्येन स्मारयति। ततो मामधिकं शोकविह्वलां विदधाति। अहह!!! मनोहारिरुचिकार्यपि नवनवोत्तमनीतिमयपुस्तकवाचनेऽपीदं मे सन्तसं मनः क्षणमात्रमपि नैव लगति। इत्थं प्रीतिमती प्रेयस्या विजयायाः पुरस्ताच्चिरस्थितमशेषं हृद्गतं
86