SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ CHAVE प्रस्तावना साहित्ये कथानां स्वविशिष्टस्थानमस्ति। आबालगोपालमनआह्लादिका अमू: कथाः। कथामाध्यमेनाऽपि केषाञ्चिज्जीवनानि परिवर्तितानि। कथा मनोरञ्जनेन सह प्रेरणादायिन्योऽपि भवन्ति। महापुरुषाणां जीवन-चरित्राणि पठित्वात्मनि वीर्यबलोत्साहस्य संचारो भवति। पूज्यपाद-श्रीमद्-विजय-यतीन्द्रसूरीश्वरेण विरिचिताः कथाः सन्मार्ग-प्रकाशिकाः। एताः सप्तकथा रोचकसुबोधात्मानन्ददायिकाः। पूज्यपादेन साधुजनेभ्य इमा लिखित्वा महानुपकारः कृतः। भाषाशैली सरसा सौष्ठवी च। पूर्वप्रकाशितस्यास्य ग्रन्थस्य पुनरुद्धारस्यावश्यकतासीत्। गुरुदेवस्य संपूर्ण-संस्कृत-साहित्य-संग्रहस्यैकत्र प्रकाशनभावनाया अयं प्रयासः। संस्कृताध्ययनशीलवर्गोऽनेन लाभान्वितो भवत्विति हार्दिका भावना। मुद्रणालयदोषेण प्रमत्तभावेन मतिमान्य वा यत्काचित् त्रुटि: स्यात् क्षम्या सा विज्ञजनैः शुभं भवतु सर्वेषाम् भिन्नमालनगरे बाफनावाडी चैत्रशुक्ल पूर्णिमा मुनिजयानन्दविजयः
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy