________________
श्री हरिबलधीवर-चरित्रम् श्वपचो दुष्टमतिर्भूपतिः कामाग्नौ होतुं श्रेष्ठमच्छीलरत्नं समायास्यत्येव। अहो! धिङ्मां मद्रूपं मद्यौवनं च। यानि मदीयोत्तमशीलसंहाराय दुर्मति-राजानं प्रेरयन्ति। अतः शीलरत्नरक्षणार्थ यत्नो विधेयो मयकेति मे मुख्यो धर्मः। इति निश्चिन्वानापि सा व्यचिन्तयत्-यत्कथं शीलरत्नो रक्षितव्योऽबलया मया सबलात्पुंसः। स मदनवेग आगामिदिने प्रत्यूष एव सबलसैन्यमादाय मदीयाङ्गणं समागत्य मां वक्ष्यति। समेहि मे गृहं यद्यहं वक्ष्यामि नैव संगंस्ये चेत् किं भवेत्? तदानीं स दुर्मती राजा निजभटान् समाज्ञापयिष्यति यद् गृह्णीतेमां बध्नीतेमां बद्ध्वा च मच्छयनागारं प्रापयतेमाम्। अहो! तदवसरे निजप्राणपतिमन्तरा को मां संरक्षेत्। शयनागारं समानीय मां स दुर्मतिः किं कुर्यात्, हन्यादेव वा जीवत्याश्च मे शीलव्रतं मोषिष्यति। अहो! पापिन्याश्च मे किमर्थं जन्माभवत्। प्रादुर्भवन्त्याश्च मे किमर्थमेतावतीसुरूपता जाता। इदानीं पर्यन्तमपि दुःखमनुभवन्त्या मे शान्तये काचनौषधिर्न जाता, अत एवाहं सुशोचामि निराधारा सती। स्त्रिया यदि काचित्प्रजा शीलवतं परिखण्डयेत्तर्हि राजा शरणं भवेत्। यदि च राजैवैतादृशो भवेत्तदा कृतान्तमेव शरणं भवेत्। अतोऽहं तमेव शरणं कुतो न व्रजामि, इदानीं चात्मघातमन्तरा न काचिदन्या कृतिर्वरीयसीति। ___अथेदानीमेव हरिबलोऽपि नवीनोद्वाहितां निजस्त्रियं कुसुमश्रियमुद्याने संस्थाप्य निजगृहस्वरूपावलोकनाय शनैरागत्य क्वचिद्रहस्येवावातिष्ठत। तत्र सत्या निजस्त्रियाः साहसं दृष्ट्वा सहसैवावादीत्-अहो! नैतदुचितमात्मघातादिकुर्वत्या भवत्याः। न द्वितीयमात्मघातादन्याय्यम्। इति वाचमभ्यदधद्धरिबलेन वसन्तश्रियाः समक्षे समागत्य समुपस्थितेनाऽभावि, दृष्ट्वैवामुं सगद्गद्वाचा वसन्तश्रीः प्रावोचत्-अहो कोऽयं मे स्वामिनाथः किं, प्रियप्राणनाथ! स कुशली भवकान्। अथ सोऽप्याह-प्रिये!
336