________________
श्री हरिबलधीवर-चरित्रम् वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः ।
एतादृक्कार्यनैपुण्येन किं? एतादृग् लज्जयापि किं? येन यया वा स्वीयैव हानिः संपद्येत। नेदानीं किमपि जातम्, अतो राज्ञे कञ्चन व्याजं दत्त्वैहि। एवंभूतवसन्तश्रीमुखनिस्सृतवाचमाकर्ण्य स हरिबलोऽप्याह-प्रिये! मा भैषीः। धर्मोऽयं खलु मतिमतां, यत् साहसिको जनः प्रतिज्ञां कृत्वा पुनः पश्चात् पादं मा विदध्यात्। प्राणा व्रजेयुः, किं च प्रतिज्ञाभङ्गो मा भवेत्। यथा चन्द्रो विपत्तिं प्राप्यापि मृगलाञ्छनं नैव जहाति' अतोऽमुष्मै कार्यायावश्यं गन्तव्यं मया। यद् भवितव्यं तद् भावि मा, मदीया चिन्ता नैव किन्तु त्वदीयैव। 'यथा सिंहो हरिणी हरेत्तथा त्वां राजेति' हरिबलीयां वाचमाकर्ण्य सहर्षिका सा वसन्तश्रीनिजभर्ने शुभमीहमाना तद्वियोगात्सबाष्पनेत्रा रोमाञ्चितगात्रा व्याहरत्-शुभो भवते भूयात् पन्थाः, कार्य संसाध्य शीघ्रमेवागन्तव्यं, भवता नैव शोच्याहं, नीतिरसौ, 'यदुत्तमा निजजीवं पातयेत् किं च निजसदाचारशीलं सर्वत्रैव संपालयेत्' किन्त्वेतदेव भवन्तं वच्मि स्वीया रक्षितव्या अवश्यं प्राणाः। अविचारितं कर्म कृत्वा पतङ्गवन्न मर्त्तव्यम्। यतो हि - जीवन् भद्राण्यवाप्नोति, जीवन् पुण्यं करोति च ।
मृतस्वदेहनाशस्य, धर्माधुपरमस्तथा ||१|| प्राणेश्वर! भद्रपुरुषाय शिक्षेयं खलु स्त्रियाः किं च भवति, प्रेमाधिक्या न स्थिरायते मे चेतः। अतो भवकन्तं भणाम्येव। इति सुधामयी प्रेमवतीं तदीयां वाचं पायं पायं स हरिबलो दक्षिणस्यां दिशि प्रातिष्ठत। केवलं सत्त्वरूपसुहृदा सह भूरिग्रामदेशविकटाटवीः समुल्लङ्घयन् स समुद्रान्तिकमायातः। गत्वा च तत्र बहुभयानकं 1. छल, बहाना। 2. आ+इ+हि। 3. मृगी। 4. क स्वार्थ। 5. प्र+स्था (आत्मने)।
326