________________
श्री हरिबलधीवर - चरित्रम्
चरणात्पूर्वोक्तपङ्कपतितहस्तीवाहमभवम् । किं बहुना मणिस्थाने मृदेव हस्ते समायाता । एतन्निखिलं स्वच्छन्दाचरणादेव समजनिष्ट । अतः स्त्री स्यात्पुरुषो वा?, यो वै स्वेच्छाचारी स चैतत् फलभाक् स्यात्। तत्रापि स्त्रियोऽतिशयेन, अतो दुर्मतेर्राशं धिङ् माम् । अथवाऽगतिर्मे भाविनी, अहो यावज्जीवमहमतिदुःखाऽभवम्। हन्त ! मृतिश्चेन्मे साधु । इत्थं भूरिदुःखवार्द्धिवीचिमग्ना मृतिमीहमाना मार्गेऽचेतनीभूयापसैत्। स्वल्पसमये चोत्थाय सुस्थिरा कुम्भिन्यां समतिष्ठत । इतो हरिबलो विचिन्तयति यदेतया सत्रा गृहवासादिसुखाशा दुराशैव, इयं तु मां निर्वर्ण्य कृशानुपतनोत्का प्रतिभाति। अहो! किमत्र मया कार्यम् । देवो मद्व्रतनियमफलतो मे सहायकश्चेद्वरं स्यात् । इत्थं स्वीये हृदि बहुधा व्यचिन्तयत् । सापीत्थं विचारयति स्म - यद् गतपुंसः शुचाऽलम्, निजप्रशंसया नैजैव हानिः अस्माद् यः शुच्यात्स मूढ एव, प्रादायि किलायं मे भर्त्ता दैवेन ! अतोऽमुं विशेषतया निश्चिनुयाम् - यत्कोऽसौ, कास्य जातिः, किं चास्य स्वरूपं, केनादर्शि यदग्रेऽसौ भाग्यवान् स्यात्, यद्वाहमेव मन्दभाग्या पूर्वं किमपि न निरचैषम् । अतः पृष्ट्वामुं निश्चिनुयामेव, यावदित्थं विचारयति बाला तावत्खेऽशरीरा वागभूत्
"
-
अयि कुमारि ! समृद्धिस्पृहा चेत्त्वमेनमेवाङ्गीकुर्वीथाः । युवयोर्महानेवोदयो जातः, एतादृशीं देवगिरमाकर्ण्य निजहृदयजातागद्यमहानन्दमुपलभमाना सस्नेहा सनम्रा मधुरवाचा तमचीकथत् । पूर्वं शुष्ककण्ठा जाताऽतस्तृष्णया तं तोयमयाचत, सोऽपि द्रुतमेव गत्वा रात्रौ पयःस्थानं सङ्गवेष्याम्भः समानीय समपीपयत् । प्रीतौ जायमानायां कष्टसाध्यो विधिः कष्टहेतुर्न प्रतिभाति । अथ
1. समुद्रतरङ्गाः । 2. पत् नो पस आदेश (अद्यतनी) । 3. पृथ्वी । 4. दृष्ट्वा 5. अग्नि - पतनेन नष्ट उत्साहः यस्याः सा ।
322