SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्री बृहद्विद्वद्गोष्ठी जगत्पूज्य : ।। श्रीमद्विजयराजेन्द्रसूरीश्वरपादपद्मेभ्यो नमः ।। गद्यपद्यसंस्कृतभाषात्मिका बृहद्विद्वदोष्ठी विबुधं मे मती राजयजनीयं गुरुं परा । जेतारं संस्मरेदिन्द्र-सूर्यकल्पं सदाऽनेरिम् ||१|| अथैकदा धारानगरीपति-भोजनृपतिः स्वसंभीयशृङ्गारभूताखिलशास्त्रविचारविचक्षणां विपश्चित्पञ्चशतीमिमां पृच्छामपृच्छत् - यत्संसारे ये निर्गुणा नरस्ते कीदृशो ज्ञेयाः ?, अथ तेषु विद्वच्छिरोमणिस्तिलकमञ्जर्याद्यनेकसंस्कृतप्राकृतग्रन्थप्रणेता 3 धनपालनामा पण्डितो व्याहरत् - येषां न विद्या न तपो न दानं न चापि शीलं न गुणो न धर्मः। ते मर्त्यलोके भुवि भारभूता, मनुष्यरूपेण मृगाश्चरन्ति ||१|| अर्थात् - ये जना अस्यां जगत्यां जन्म धृत्वा न विद्यामधीयते, न तपस्तपस्यन्ति, न हीनदीनदुःखिजनानां साहाय्यं प्रददते, स्वाचारं न पालयन्ति, वीर्यरक्षां न विदधते, सहनशीलत्वादिगुणान्न दधते, निजधर्मे च न रमन्ते, ते जना मनुष्याकारा मृगा एव बोध्याः । यथा हि मृगो घासादि घर्सित्वा स्वजीवनं निर्वहते, तथैव निर्गुणः पुमान् खादित्वा पीत्वा चामूल्यं दुष्प्राप्यं च स्वजीवनं व्यर्थमेव 1. नास्ति अरिः यस्य सः । 2. सभायाः सम्बन्धिनः 3. प्रश्नं । 4. खादित्वा । 288
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy