SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ चतुर्थ-प्रस्तावः श्री चम्पकमाला-चरित्रम नो विजहाति।" अद्यैव तत्र भवता सुधासहोदरोपदेशादज्ञानरोगनिरासिमहौषधेर्मम तत्त्वज्ञानलक्षणनैरुज्यमुदपद्यत, अर्थादज्ञानमनशत्, समुत्पन्नं च तत्त्वज्ञानमिति। यद्यप्यहं सकलसावद्यहेयलक्षणं सर्वोत्तमं साधुमार्ग जिघृक्षुरस्मि तथापि तदवनाय मयि तावती शक्ति स्ति। अत एव सम्यक्त्वमूलकं द्वादशव्रतलक्षितं श्राद्धधर्म ममोपरि प्रसद्य सस्त्रीकं मामुपदिशत?, इत्थं भक्तिभरेण तदुदितं निशम्य स सूरिदिवाकरो भक्तिमन्तं श्रद्धालुं विनीतं सुशिष्यं मन्त्रमिव तं सभायं सार्थवाहं श्रावकीयमर्कव्रतमुपदिष्टवान्। तदनु स्वं कृतकृत्यं मन्वानः सार्थेशः सभार्यः स्वसदनमागत्य निजेष्टदेवमिव धर्म कर्तुं लगः। ___ ततोऽसौ सार्थपतिः शङ्कादिदोषमुक्तमुज्ज्वलं सम्यक्त्वसहितं निर्दुष्टाऽणुव्रतात्मकं श्राद्धव्रतं पालयन्, साधूंश्च विशुद्धाऽन्नपानवसनपात्रादीनि प्रतिलाभयन्, सद्ध्यानं धरन् सकल श्रावकमूर्धन्यो बभूवान्। तत्पत्नी चम्पकमाला महासत्यपि सच्छीलसौरभ्येण शुशुभे। प्रकृत्योदारचेताः सन्नपि परमोदारोक्तिप्रेरितः प्रमोदभागसौ सार्थेशः सदुपार्जितां निजलक्ष्मी सप्तक्षेत्रेषु वपन् सार्थक्यं निनाय। बहुलार्थव्ययेन नव चैत्यानि निर्माय तेषु बहुना द्रव्यव्ययेन महीयसोत्सवेन चाहतीः प्रतिमाः प्रातिष्ठिपत्। कियतां जीर्णतराणां चैत्यानामुद्धतिमचीकरत्। तथा जिनशासनोपयोगिनानापुस्तकान्यलीलिखत्। चतुर्विधश्रीसङ्घभक्तिरप्यकारि। अथाऽमुना धर्ममतिना सार्थवाहेन जीवांश्चिरं जिजीवयिषया मीनजीविनां दुष्टतमानां घातुकानां मीनघातवृत्तिरपि नृपतस्त्याजिता। अर्थाद्यथा कश्चिदपि जात्वपि मीनादीनबलाञ्जीवान् नो हन्यादिति राजनियममकारयत। निजविशालभालपट्टे सङ्घाधिपत्यतिलकमुत्तममधारि चामुना। 1. अर्क = द्वादश । 284
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy