________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् विरसा = नीरसाः भोगा = विषयाः भुञ्जन्तां = सेव्यन्ताम्, परमेते कच्छूसम्पर्काज्जातकण्डूयनमिव दुःखजनकाः सुहे = वास्तविकसुखविषयिणी या बुद्धिस्तां दाविति = दापयन्ति - कृन्तन्ति, मज्झण्हे = मध्याह्ने मयतिन्हि अव्व = मृगतृष्णिकावत् मिच्छाभिसन्धिप्पया = मिथ्याभिसन्धिप्रभाः-मिथ्याऽलीकमभिसन्धेस्तबुद्धेः प्रभा च्छायां येषु ते तथाभूता विषया भोगाः महावेरिणो = महावैरिणः प्रबलाः शत्रवः भुत्ता= भुक्ताः-सेविताः सन्तः कुजोणिजम्मगहणं = कुयोनिजन्मगहनम्-कुत्सिता योनयः कुयोनयः-नीचकुलादौ यज्जन्म गहनं भवपरम्परा तत् दिन्ति = ददति भोगिनां प्राणिनामिति भावः। अत एतादृशा महाशत्रुकल्पा भोगा नैव भोक्तव्याः सद्भिः कदापीति तत्त्वम्।
अर्थार्थं नक्रचक्राकुलजलनिलयं केचिदुच्चस्तरन्ति, प्रोद्यच्छनाभिघातोत्थितशिखिकणकं जन्यमन्ये विशन्ति। शीतोष्णाम्भःसमीरग्लपिततनुलताः क्षेत्रिकां कुर्वतेऽन्ये, शिल्पं चानल्पभेदं विदधति च परे नाटकाचं च केचित्।।४४||
व्याख्या - अर्थार्थ = धनार्जनाय केचित् = कियन्तो जना उच्चैरगाधं नक्रादिभीषणजलजन्तुसमूहेनाऽऽकुलीकृतजलराशि समुद्रं तरन्ति = समुद्रमप्युत्तीर्य व्याप्रियन्ते, प्रोद्यन्ति यानि शस्त्राणि तेषां घातेन प्रहारेणोत्थिताः शिखिनः कणा यत्र तादृशं जन्यं युद्धमन्ये इतरे विशन्ति, अर्थात्कियन्तो धनलिप्सया प्राणापहार्यपि युद्धं कुर्वन्ति। अन्ये तु शीतेनाऽम्भसा - वारिणा समीरेण = वातेन ग्लपिता = म्लाना तनुलता लतेव कोमला तनुर्येषां ते तत्कृतं क्लेशं सहमानाः क्षेत्रिकां = क्षेत्राणि कुर्वते = कृषन्ति, च पुनः परेऽनल्पभेदमनेकभेदसहितं शिल्पं विदधति = प्रकुर्वते,
282