SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् ___चतुर्थ-प्रस्तावः विस्मृत्य पृथिव्यां यत्र तत्र पर्यटति। कमलायामेकान्तमासक्तचेतास्ते भर्त्ता यत्र कुत्र बम्भ्रमीति चेदन्यायामप्यासक्तो भवेदेव शठत्वादिति हेतोस्तत्र भर्तरि तवेदृशी गाढप्रीतिः प्रतिबन्धो वा घटते किम्?, यश्चाऽनङ्गपञ्चाननातिभीषणे यौवनमहाकानने त्वामेकाकिनीमबलामजहात्। गतवांश्चान्यत्र तर्हि तदन्यः शठश्च को नाम द्वितीयो निगद्येत। अत एव सुमुखि! तदनुरागं विजहाहि?, हितं मद्वचः शृणु?-त्वन्मनोऽनुकूलेन केनचिदनुरागिणा यूना पुंसा सत्रा स्वैरं विहर, यौवनं चादः सफलं कुरुष्व। भोगं विना निरुपममपीदं तव यौवनं नूनमाकाशकुसुममिव मुधैव याति। यथा "पुंसां प्राधान्येन सुखसाधनं कामिनी वर्तते तथैव योषितामपि तदसाधारणं साधनं पुमानेव भवति।" तदाह कश्चित्कविः प्रत्यागमिष्यति भविष्यति सङ्गमो नौ, संदृश्यते च भवतो हृदयेऽनुरागः । एषा गता न पुनरेष्यति जीवितेश?, विद्युद्धिलासचपला नवयौवनश्रीः ||३६|| व्याख्या - हे जीवितेश! भवान् प्रत्यागमिष्यति = देशान्तरात्परावय॑ति, ततो नौ = आवयोः सङ्गमो मेलनमपि भविष्यति, तत्र मनागपि नैव संशये। यतो यस्माद् भवतस्तव हृदये = मनसि ममाऽनुरागः संदृश्यते = विलोक्यते, किन्तु एषा = इयं विद्युतस्तडितो विलास इव चपलाऽस्थिरा नवयौवनश्रीः गताऽतीता सती पुन वैष्यति, अत एव यौवनश्रियमुपभोगेन सफलीकृत्वैव विदेशं याहि। __ तादृशः श्रेयान् गुणवान् पुमान् दृशं न रोहतीति तु नैव वाच्यम्?, यथा त्वं सुष्ठुश्रीः सृष्टौ गुणै रूपैस्तारुण्यैरेकाऽसि 261
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy