SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला - चरित्रम् तृतीय- प्रस्तावः वा तुल्या एव जायेरन् । भ्रातरो वा सर्वे समानप्रकृतिका एव न भवन्ति। तदुक्तम् एकोदरसमुत्पन्ना, एकनक्षत्रजा अपि । न भवन्ति समाचारा, यथा बदरिकण्टकाः ||३१|| एकस्मादुदरात्समुत्पन्नाः, तथैकस्मिन्नेव नक्षत्रे जायन्त इत्येकनक्षत्रजा बदरिकण्टका यथा समाचारा = एकाकारा न जायन्ते, तथैकमातुर्जाता भ्रातरः स्वसारो वा समाचारा = तुल्याचारविचाराः सदृशस्वभावा नैव भवन्ति । व्याख्या - अन्यदपि मतिमन्! जगत्यामस्यां फल-पुष्प-पत्र - पुरुष - दन्ति - तुरगोपल - कमलप्रमुखा एकस्थानजाता अपि नानाप्रकृतिका जायन्ते, तदन्येऽपि बहुशः पदार्थाः प्रकृतिभिन्ना दरीदृश्यन्ते चेत्तर्हि स्त्रीजातौ सा प्रकृतिः कथं नो भिद्येत?, भवत्येवेति निश्चयं विदाङ्कुर्वन्तु तत्र भवन्तः। गुणानां प्रवाससंवासाभ्यामर्थात्तदीयाऽवगुणसंसर्गाच्चिरपरिचयाद्वा यथा सा दुःशीलाऽऽसीत्तथैवेयमपि तदनुजा भविष्यतीति मा संशयीथाः । यतः - सज्जनो जनो दुर्जनानां गोष्ठ्यां तिष्ठन्नपि तत्परिचयं कुर्वन्नपि लेशतोऽपि तदीयदुर्जनतां नैव भजते। यथाऽऽजन्म- महाभोगिभोगस्थितो मणिः स इव दुःस्वभावः परेषां पीडाकारी न जायते । यद्यप्यहं तस्या अनुजास्मि तथापि तत्तुल्यस्वभाववतीभूय सेवाऽकृत्यं नैवाऽऽचरिष्यामि स्वप्नेऽपि । अथवा यथा क्वचित्कूपे पतितमात्मीयमपि जनं विलोक्य तत्पृष्ठे मतिमान् नैव पतति तथैवाऽहमपि तदनुकारिणी नैव बुभूषामि । अत एव ज्यायसीं में स्वसारं दुराचारिणीं विलोक्य तदनुजां मामपि मा जहाहि ?, "क्षीराद्विरक्तः कश्चिद्दधि जहाति किम्?" एतद्विषये निस्त्रपेव बहु किं जल्पामि - " भवदधिग्रीवं या चम्पकमाला मया निहिता सैव मामकं सतीत्वं बोधयिष्यति, यावन्मे शीलम 251 -
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy