SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् ___ तृतीय-प्रस्तावः प्रस्वेदबिन्दुविभूषितगात्रः पथि व्रजन् प्रतिपदं स्खलञ्छीघ्रमहं स्वसदनमागाम्। तत्र चारण्यमिव शून्यं नष्टाऽशेषभवनं स्थलमात्रमवशिष्टमालोक्य लोचनाभ्यामश्रुधारां मोक्तुं लग्नः। तदानीं वेश्यापमानदुःखाग्निदग्धोपरि निजसदनधनपरिजनादिक्षयोद्भूताऽसहनीयं दुःखं व्रणोपरि स्फोटकमिव ममाध्यजायत। तदानीं मे यदभूद् दुःखमवाच्यं तत् खलु परमात्मैव जानाति। तदनु कथमपि स्वास्थ्यमवाप्य पार्श्ववर्तिलोकानपृच्छम्-यन्मे मातापितरौ क्व गतौ?, गृहाश्च ममाऽत्राऽऽसन्, ते कथमत्र नो दृश्यन्ते?, तथा मामिका पत्नी क्वाऽगात्?, लोका अवोचन्-भो आर्य! त्वां वेश्यासक्तं विदित्वा पुत्रधनवियोगेनात्यन्तं दुःखमनुभूय च तव मातापितरौ मृतौ। यतो हि "लोके पुत्रविरह एव दुःसहं दुःखमर्पयति तर्हि धनपुत्रयोरुभयोर्वियोगे तादृशी दशा जायेत, तत्र किमाश्चर्यम्?, तदनु त्वत्पत्नी "यन्मे भर्ता वेश्यासक्तस्तद्गृहे निवसति, गृहकृत्यदक्षामपि मां गृहान् लक्ष्मी चोपेक्षते, कदापि सदने नायाति, श्वश्रूश्वशुरौ च मे मृत्युमधिजग्मतुः, अत एव भर्तरि सत्यपि तेन विना ममैकाकिन्या अत्र वासो न युज्यते?, सम्प्रति पित्रालय एव दुःखिन्या मम निवासः श्रेयानिति" निश्चित्याऽवशिष्टाऽऽभरणवसनादिकमादाय क्रन्दन्ती, नष्टप्रायमालयमिदं जलाञ्जलिमर्पयन्तीव, यूयमस्मदेतत्सदनं निपतितं रक्षतेति निजसम्बन्धिवर्ग सादरं मुहुर्मुहुर्बोधयन्ती कञ्चनैकं भृत्यं साधं नीत्वा कौशाम्ब्या निजतातसदनमगादिति तव पित्रोः पत्न्याश्च वात्ता जानीहि। वयस्य! भवितव्यं बलवदस्ति, ये खल्वत्र महीयांसो नरोत्तमा नलरामादयो जज्ञिरे तेऽपि तदूरीकर्तुमलं नैव बभूवांसः। तथा चोक्तम् - नेता यस्य बृहस्पतिः प्रहरणं वजं सुराः सैनिकाः, 235
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy