SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् तृतीय-प्रस्तावः साक्षाल्लक्ष्मीरिव रुक्मिणी नाम्नी तनयाऽऽसीत्। पित्रा च महतामहेन तस्याः पाणिपीडनं मयाऽकारि। ततस्तां प्राणतोऽप्यधिकप्रियां स्वसदनमनैषमहम्। ततोऽहं तया साकं निर्भाग्यप्राणिदुरापमनुपमं भोगं भोक्तुमलगम्। अथैकदा प्रस्तावे पण्डितोक्तं नीतिवाक्यमहमश्रौषम्। तथाहि-यः खलु पितुर्लक्ष्मी भुङ्क्ते स पुमान्महा-पापीयान् देवदारुतरुरिव पितुः सुखाय नैवार्हति। यदुक्तम्जनकार्जिता विभूतिर्भगिनीति सुनीतिवेदिभिः सद्भिः । सत्पात्र एव योज्या, न तु भोग्या यौवनाभिमुखैः ||२१|| व्याख्या - जनकेन = पित्राऽर्जितोपार्जिता विभूतिरैश्वर्यं भगिनी = स्वसेति सुनीतिवेदिभिः = सन्न्यायज्ञैः सद्भिर्महाजनैर्निगदितास्ति, अत एवेयं भगिनीरूपा विभूतिः सत्पात्रे = योग्यतमे पुंस्येव योज्या = प्रदेया, यौवनाभिमुखैस्तरुणैः पुंभिः स्वयं, नतु - नैव स्वयं भोग्या जात्वपीति भावः। अन्यच्च - स्तन्यं मन्मनवचनं, चापलमपहेतुहास्यमत्रपताम् । शिशुरेवार्हति पांशुक्रीडां भुक्तिं च पितृलक्ष्याः ||२२|| व्याख्या - लोके हि स्तन्यं = स्तन्यदुग्धपानं, मन्मनवचनं यादृशतादृशजल्पनम्, चापलम् = चपलताम्, अपहेतुहास्यम् = अकारणहसनम्, अपनपताम् = लज्जाराहित्यम्, पांशुक्रीडां = धूलीरमणम्, पितुर्या लक्ष्मीर्भगिनी तस्या भुक्तिं भोगं च शिशुरज्ञ एवार्हति कर्तुमिति शेषः, नैवेतरः कोऽपीति। इति नीतिवाक्यमाकर्ण्य जलमार्गेण द्रव्योपार्जनाय यियासुं मां कदाचिज्जलादुपद्रवः सूनोर्मे स्यादिति शङ्कया पिता न्यषेधीत्। ततोऽहं विविधविक्रेयवस्तूनि वृषभोपरि कृत्वा स्थलेनैव व्यापर्तुं 231
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy