SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ द्वितीय-प्रस्तावः श्री चम्पकमाला-चरित्रम् प्रेमलक्षणैरभैश्छन्नो ज्ञानसूर्यस्तिरोहितीभूय नूनमदृश्यतामुपैति। अन्यच्च - तावत्क्रीडन्ति हृत्सौधे, विनयादिगुणाऽर्भकाः । यावन्नायाति तत्रोग्रो, रमणीरागराक्षसः ||१८|| व्याख्या - यावन्तं कालं तत्र रमण्यां युवत्यां जातो यो रागस्तद्रूपो महान् राक्षसो नाऽऽयाति = नोद्गच्छति, तावत् = तावत्कालमेव हृत्सौधे = हृदयप्रासादे विनयविवेकादिगुणरूपाः। अर्भकाः = शिशवः क्रीडन्ति = रमन्ते। अर्थात् = बलवति कामिनी-रागलक्षणराक्षसे समायाते लोकानां चेतसि विवेकादयो गुणा अर्भका राक्षसाऽऽलोकने सति तत्कालमेव ततः पलायन्ते। अत्याश्चर्यमेतत् - व्याकीर्णकेसरकरालमुखा मृगेन्द्राः, नागाश्च भूरिमदराजिविराजमानाः । मेधाविनश्च पुरुषाः समरेषु शूराः, स्त्रीसन्निधो परमकापुरुषा भवन्ति ||१९|| व्याख्या - व्याकीर्ण = उत्क्षिसः केसरो 'ग्रैवः कचो येषां ते व्याकीर्णकेसरा अत एव करालमुखा=भीषणवदना मृगेन्द्राः सिंहाः, भूरि विपुलो यो मदराजि ननिकरस्तेन विराजमानाः = शोभमाना नागा मदमत्तद्विपाश्च मेधाविन = आशुग्राहिणः समरेषु शूराः= पराक्रमिणश्च ये पुरुषास्ते सकला अपि स्त्रीसन्निधौ = युवतिजनाऽग्रे परममत्यन्तं कापुरुषाः पौरुषप्रहीणा भवन्ति = जायन्ते, अर्थाद् बलवतोऽपि पुंसः क्षणाल्लीलयैव ता वशयन्ति। तदनु मदनातुरया कामदेवगाढान्धकारत्याजितव्रीडया तया 1. ग्रीवायां जातानाम् समूहः 220
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy