SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् प्रथम-प्रस्तावः दप्यधिकं तथा वितरन्तितमां यथा कल्पतरुश्चिन्तामणिर्वा नो दद्यात्। तस्यां नगा निजौजसा महीयसा सहसा वित्रासिताशेषविपक्षपक्षः समस्तजगतीतलप्रसारिनैदाघभानुकल्पाऽनल्पतेजा रणविक्रमी 'विक्रमादित्यो' नाम क्षितिपति-रन्वर्थनामा धरामेतामशेषां शास्ति। असौ किल धीरतया बलबुद्धियोगेन चाऽग्निवेतालनामानं व्यन्तरदेवं वशंवदं व्यधादुपासनया महत्या, सर्वदैव स देवस्तदादेशं सम्पादयति, तत्प्रभावादगम्यदेशेऽप्येष सुखेन गच्छति, अजय्यमपि विद्विषां कुलमनायासेन जयति, दिव्यमपि सुखं मत्र्येऽस्मिन् (लोके) भुङ्क्ते। स किलाजन्मनिर्मलमखण्डितं शीलं परिपालयन्, रिपुकुलं परिभवन, दीनानुद्धरन्, सेवकान् कुटुम्बांश्च सुखयन्, गुणिजनान् सत्कुर्वन्, कलिकालेऽप्यमुष्मिन् परस्त्रियं भगिनीं जानन् भुवं नयेन शास्ति। इत्थं विशिष्टस्यास्य भूजानेरान्तरं मिथ्यात्वतमस्तोमं निराकृत्य महाद्भुतप्रभावशाली श्रीमान् सिद्धसेनदिवाकराचार्यः सम्यक्त्वरूपभानूदयं तदन्तष्करणभवने भावितवान्। अयं हि निज विरचिताऽपूर्वपवित्रस्तोत्रमहिम्ना शिवलिङ्गमध्याच्छ्रीपार्श्वनाथप्रभोर्मनोहरं बिम्बं प्रकटयामास। तच्च बिम्बं प्रत्यहं विक्रमार्को राजा समर्चयन् भूयसी चमत्कृति लेभेऽस्यां जगत्याम्। स हि खलु सुवर्णमयपुरुषादुत्पन्नं कृत्स्नं स्वर्ण लोकेभ्यो विततार। तथा जगज्जीवसदनामिमां पृथ्वीमनृणां विधाय स्वनाम्ना सम्वत्सरं सर्वत्र स्थापयाञ्चकार। किं चायं स्वयं नानाविधां क्लेशपरम्परां सहमानः परेषां दुःखानि साकल्येन दूरीकुर्वञ्जीमूतवाहनादिकथां सत्यापयामास। कलाचार्य इवाऽशेषकलापारदृश्वा भवन्नपि स्वल्पकलाज्ञानवतोऽपि जनानधिकमादरयन्नासीत्। इत्यादिबहुविधसद्गुणगणगरीयान् श्रीमान् विक्रमादित्यभूजानिः सकल 195
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy