________________
श्री कयवन्ना-चरित्रम् ज्ञानदीपमहावायुरयं खलसमागमः ||३|| व्याख्या - अयं खलसमागमः कुसङ्गतिः आनन्दलक्षणमृगस्य दावाग्निः, शीलशाखिनः शीलरूपी यस्तरुस्तदुन्मूलनाय मत्तमातङ्गः, ज्ञानदीपस्य निर्वापणे महावायुरस्ति, अत एव कुसङ्गत्या पुंसः शीलाऽऽनन्दविवेकादयो गुणा विनश्यन्ति। अतो नीतिवाक्यानि पौनःपुन्येनाऽऽहूयाहूय लोकान् बोधयन्ति यद् भो भव्याः! यूयं कुसङ्गादिदोषात्सत्सङ्गतिं मा त्यजत।
अहो! क्व गोपीचन्द्रस्य मौनवती जननी क्व च कयवन्नामाता वसुमती? एतयोरुभयोर्मेरुसर्षपयोरिवान्तरमस्ति। यस्मात्सा मौनवती विषयासक्तं स्वपुत्रं गोपीचन्द्रमेवं प्रतिबोधयामास। वत्स! कदाचिदेकदा जगज्जिघत्सुरसौ बलीयान् कालस्त्वामपि कवलीकरिष्यत्येव, अत एव त्वदीयभोगविलासं दर्श दर्श मदीयं लोचनयुगलं दुःखाज्जलं जहाति। हन्त! एष एव भोगविलासस्त्वां मानुष्यमहत्त्वादधः पातयति, आरोहयति च बलाद् दुर्गतेः पन्थानम्। अत एनं नरकयातनानायकं विषयभोगं जहाहि, शाश्वतसौख्यप्रदं वैराग्यमेव जुषस्व?, इत्थं मातुस्तथ्योपदेशात्तत्कालमेव गोपीचन्द्रो विषयवैमुख्यमधिगत्य प्रतिबुद्धवान्। वसुमती तु निर्मले सन्मार्गे प्रवृत्तमपि सूनुं महताऽऽयासेन गर्हिते दुर्गतिदायके पथि प्रावर्त्तयत। हंहो! सदाचारेण पुत्रस्य मातापित्रोः स्वस्य च महानेव लाभो जायते, कुमार्गप्रवृत्त्या तु कियती हानिरुदेतीतिप्रायः समेषां विदितमेवास्ति। अतो मातापितृभ्यामात्मजः सन्मार्ग एव प्रवर्त्तनीयः, न जात्वपि कुपथे वसुमतीवत्। ___ अहो! मोहमाहात्म्यम्-यः खलु कयवना पुराऽनवरतं शास्त्रचर्चायामेवाऽरंस्त स एवाऽधुना कुसङ्गत्या मदिरां पायं-पायं प्रमाद्यति। आसीच्च यस्य पुरा काव्यादिविनोदपरिशीलनैव सदा
168