SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् श्रीमालवंशसद्रत्नकल्पजगडूशाहस्तदैव राज्ञेऽष्टसहस्रमूढकपरिमितं धान्यं व्यतारीत्। तत्रावसरे तस्यां सभायां सन्तः कियन्तः सोमेश्वरादयः कविवरा ईदृशीमुदारतां वीक्षमाणा जगडूशाहमेवमस्ताविषुः - ___ "श्रीश्रीमालमहोज्ज्वलविशालकुलोदयाचलालङ्कारदिवाकरो महाकरालकलिकालकालीयप्रमदविजित्वरदामोदरः, त्रिलोकीप्रसृत्वरहिमकरतुषारसोदरकीर्तिनिकरः, सद्धर्मलतादृढत्वक्सारोऽखिललोकपरिपालकोऽसौ श्रीमालान्वयकोटीरो जगडूश्चिरं विजयताम्।" पाताले क्षिपता बलिं मुरजिता किं साधु चक्रेऽमुना, रुद्रेणापि रतेः पतिं च दहता का कीर्तिस्त्रार्जिता । दुर्भिक्षं क्षितिमण्डलक्षयकरं भिन्दन् भृशं लीलया, स्तुत्यः साम्प्रतमेक एव जगडूरुद्दामदानोधतः ||१|| व्याख्या - पातालेऽधोलोके बलिं तदाख्यमसुरं क्षिपताऽमुना मुरजिता-श्रीकृष्णचन्द्रेण किं साधु-समुचितं चक्रेऽकारि, च पुना रुद्रेणापि महेश्वरेणापि रतेः पति-मदनं दहता-भस्मीकुर्वताऽत्र संसारे का कीर्तिरर्जिताऽधिगता, कापि नेत्यर्थः। क्षितिमण्डलक्षयकरं-सकलभूमण्डलप्रलयकरं दुर्भिक्षममुं लीलयाऽनायासेन भिन्दन्-दूरीकुर्वन् उद्दामदानोद्यतः-निरपेक्षवारिदवत्सकलजनान्नदानकरणतत्परोऽसौ जगडूरेक एव साम्प्रतमधुना स्तुत्यः स्तोतुमर्हः, ईदृक्कीर्तिकारी कोऽप्यन्यो नाऽभूदिति यावत्।" 'इन्द्रवरुणयमकुबेरा एकैकदिशायाः पालकत्वादिक्पालत्वं बिभ्रति, अयं जगडूशाहस्तु सर्वासामाशानाम्परिपालनानाम्नोऽर्थतश्चान्वर्थमेव लोकपालत्वं बिभर्ति। वस्तुतस्तु तेषु लोकपालेषु सत्स्वप्यधुना दुष्कालक्लेशितं भूतलमदः कोऽप्यवितुमलं नाऽभूत्, 147
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy