SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् देशे विदेशे चानेकानि जिनचैत्यानि विरचय्य जैनशासन समुन्नतिमेधयन्नात्मगौरवमतनोत्। ८. भद्रेश्वरनगरे बृहतीमेकां पौषधशालामकारयत्। पुनरसौ पित्तलमयं कमनीयतरं मन्दिरं विरचय्य तत्र गुर्वर्थं श्रीशङ् खेश्वर-पार्श्वनाथस्य भगवतो राजतं चरणयुगलं स्थापयाञ्चक्रे। गुया पौषधशालायामुपाश्रये च गुरोः श्रीपरम देवसूरेः शयनार्थं ताम्रमयं महापढें विन्यस्तवान्। ९. परमदेवसूरेः पट्टाधिकारिणे श्रीषेणनाम्ने मुख्यशिष्याय महामहं विधायाऽऽचार्यपदं ददिवान्। अमुष्मिन् पट्टोत्सवे जगडूशाहः प्राज्यार्थव्ययं कृत्वाऽऽत्मलक्ष्मी सफलां विधाय शासनसुषमामवीवृधत्। पुनरवादीद् गुरुं प्रति स्वामिन्! भवदीयपट्टपरम्परायां मवंश्या एवाऽऽचार्यस्थापनामहं कुर्वतामितरे नेति वचनं देहि? अथैतस्य धर्मिष्ठस्य भक्तिपेशलमदो वचौकालिकज्ञानवान् सूरीन्द्रोऽपि प्रत्य पद्यत। १०. पुराऽसौ यत्र सुस्थितदेवाऽऽराधनमकृत, तत्रापि सुन्दरामेकां देवकुलिकां निर्माप्य तद्देवप्रतिमामस्थापयत। एवं जगकल्याणकृतेऽसौ प्रतिग्रामे प्रतिनगरे च सुधास्वादुजलपूर्णान् कूपान् वापिकाश्च सहस्रशोऽचीखनत्। अमुना पारमार्थिक सुकृत्येन सर्वे जीवा अस्मा आशिषं दददिरे। ११. भद्रेश्वरपुरे म्लेच्छतो लक्ष्म्यासादनहेतुना खीमलीसंज्ञितमेकं मस्जिदं (यवनधर्मभवन) निरमीमपत्। पुनरेवं कपिल कोट्टपुरे वेणीमाधवमन्दिरं, कुन्नणपुरे हरि-हरयोर्मन्दिरं च समुद्दधार। अथैकदा मोगलचमूश्चतुरङ्गा गुर्जरजिगीषया समाययौ। सा 141
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy