SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्री रत्नसारकुमार - चरित्रम् व्याख्यानवाचस्पत्युपाध्याय श्रीमद्यतीन्द्रविजयमुनिप्रवराणां प्रशस्तिपत्रम् जिनमतजनतातिजातमानः, यमनियमादिगुणैर्विराजमानः । मुनिजनमनसि सुधासमानः जयतु यतीन्द्र - “यतीन्द्र” वब्द्यमानः ||१|| गुणिगणगणनाग्रगण्यमानः, शिवपदवीपदवीं प्रवर्त्तमानः । भविभवभवभीतिभज्यमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||२|| अविरतसुतपस्तपस्यमानः, शमदमशीलगुणैश्च शोभमानः । जगति जडजनान् विबोध्यमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||३|| अनुपमतनुदीप्तिदीप्यमानः, जिनततिशासितशासने सुमानः । कविरिव कविसङ्घसेव्यमानः, जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||४|| जनजननमृतिविदार्यमाणः सततसुदुर्धरवीर्यधार्यमाणः । मतिमदतिनतो गताभिमानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||५|| " जगति जलधिजीवतार्यमाणः सकलसदागम मर्मपार्यमाणः । मदगदरहितः प्रधीप्रधानः, जयतु यतीन्द्र - यतीन्द्र वब्द्यमानः ||६|| तपन हव विभा वितप्यमानः जनकमलौघमुदा विकास्यमानः | अखिलखलखलत्वहापयानः । जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||७|| कलिमलिनमलं बलादलं यः, दलतितरां मुनिमण्डलाग्र्यमानः | अपरपरनरे सदा समानः, जयतु यतीन्द्र - यतीन्द्र वन्द्यमानः ||८|| स्तुतिरिह रचिता सुपुष्पिताग्रा, पदरुचिरा च यतीन्द्रवाचकानाम् । भवतु सुफलदा सदा तदेषा, घुतरुलतेव फला सुपुष्पिताग्रा ||९|| श्लोकानां नवकं रम्यं, शब्दार्थालङ्कृतिश्रितम् । व्याख्यानवाक्पतिश्रीमद्यतीन्द्रविजयस्य वै ||१०|| रचितं वाचकप्रीत्ये शिवशङ्करशास्त्रिणा | शाब्दे शास्त्रे च साहित्ये, आचार्यपदधारिणा ||११||
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy