SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् । नारीश्च तत्र सङ्के समायातुं सर्वत्राऽऽमन्त्रणपत्रिकाः प्रेषितवान्। येन सहस्रशो नरनारीगणस्तत्र सङ्घ सङ्गन्तुमुद्यतो जज्ञे। जगडूशाहस्तु नानाविधां व्यवस्थां कृत्वा पृथक् पृथक् तत्सङ्घीयसकलकार्यसम्पादनाय योग्यतमाननेकान् पुरुषानधिकृतानकरोत्। तदानीमिन्द्रानुपदं सामानिकादेवा इव सोलात्मजस्य पृष्ठे सहस्रशः श्रीमन्तो जना अनुगमनाय समुत्सुका बभूवुः। भूयांसो विद्वांसस्तत्र सङ्के सह गन्तुं ससज्जिरे। अथ परमदेवसूरिः शुभवेलायां सोलात्मजस्य जगडूशाहस्य 'संघवी' इत्युपाधेस्तिलकं कारितवान्। ततः सर्वखेटानुकूल्ये शुभे मुहूर्ते सङ्घः श्रीभद्रेश्वरपुरात्प्रतस्थे। प्रयाणसमये नानाविधानि वाद्यानि माङ्गल्यमयानि द्यावापृथिव्यौ पूरयन्तीव विनेदुः। नागरिक्यः सौभाग्यवत्यः सर्वाभरणैर्मण्डिता ङ्ग्यः सुकामिन्यो धवलमङ्गलं गातुमारेभिरे। महान्ति बहुविधानि निकेतनानि गजेन्द्रास्तुरगा रथाश्च चेलुः। शकटाः करभाश्चागणिताः प्रचेलुः। तत्र सङ्के प्रयाते सति 'कलियुगममुं विहन्तुं साक्षाद्धर्मराजो बृहत्या सेनया किमेष प्राचलदिति कवीन्द्रा मेनिरे।' चतुरङ्गया सेनया शोभामपूर्वामधिवहन् ससङ्घो मार्गे महीयसी कनीयसीं च यात्रां कुर्वननुक्रमेण गुर्जरीयभूमावायातः। तत्राऽणहिल्लवाड (पाटण) पुरीयराजधानीमागतः स सङ्घाधिपतिर्जगडूशाहो वीसलदेवभूपालं प्रणम्य सारभूतरत्नानां श्रेणीमुपाहृतवान्। हृष्टो राजापि तमेनं समुचितं सत्कृतवान्। मार्गानुकूल्याय गजाश्वरथं सैन्यानि च तस्मै दत्तवान् राजा। अथैनं गुजरेश्वरं वीसलदेवं नमस्कृत्य सङ्घवी जगडूशाहश्चतुर्विधेन सङ्घन सार्धमग्रे चचाल। मार्गे च प्रतिस्थलं जिनचैत्योपरि बृहतीर्ध्वजा आरोपयन्, पदे पदे च स्वर्णान्यर्थिसात्कुर्वनसौ तेषां मनांस्यतूतुषत्।। इत्थं स्थले स्थले तिष्ठन् क्षेमेण श्रीशत्रुञ्जयमहापर्वतमाससाद 1. खे अटन्ति = खेटाः ग्रहाः। 138
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy