SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् शुद्धा गुरवो जगतस्तरन्ति, अन्यानपि तारयन्ति च ।' साधुधर्म-श्रावकधर्मभेदेन शुद्धधर्मोऽपि द्विविधो विद्यते । ये जीवा लघुकर्माणो मुमुक्षवो जितेन्द्रियाः सांसारिके क्वाप्याकर्षके विषये बन्धनकारके न तिष्ठेयुस्ते प्राणिनः साधुधर्मानशेषानाराध्य वीतरागस्थापितमार्गानुसारेण सत्वरं मोक्षं यान्ति । ये जीवा बहुलकर्माणः साधुधर्मपालनेऽसक्ताः संसारेऽत्र विषयवासनया निबद्धा भवेयुस्ते खलु श्रावकधर्मपालनादेव समयान्तरे मोक्षमेष्यन्ति । श्रावका अप्युत्तममध्यमकनिष्ठ भेदेन त्रिधा सन्ति । तत्र ये द्वादशव्रतधारिणो देवगुरुधर्मेषु भक्तिं कुर्वन्त एषां कृते प्राणमपि दित्सन्ति, ते जीर्ण श्रेष्ठीव द्वादशदेवलोकपर्यन्तं गन्तुमर्हन्ति । चेटकमहाराजवद्राज्यव्यवसायी युध्यमानो द्वादशव्रतधारी श्रावकोऽप्यष्टमदेवलोकमगमत् । मध्यमाः श्रावका द्वादशव्रतेभ्यो न्यूनमपि व्रतं यथाशक्ति परिपाल्य देवे गुरौ धर्मेषु च सम्यग् भक्तिं कुर्वाणा जायन्ते, बोभूयन्ते च संसारे व्यवहारविषये प्रीतिमन्तः, अथापि धर्मेष्वभिरुचिमेते कुर्वन्ति, यथाशक्तिव्रतप्रत्याख्यानादिकमप्याचरन्ति, ईदृशाः श्रावकाः पञ्चमे गुणस्थानके जायन्ते च। तृतीयाः कनिष्ठाः श्रावकास्तु व्रतादेरकरणादविरतिसम्यग्दृष्टयो निगद्यन्ते, एते खलु देवगुरुधर्मेषु भक्तिं विधातुं श्रेणिकराजवदृढतराऽऽस्थावन्तो भवन्तस्तीर्थकृतां भक्त्या क्षायिकसम्यक्त्ववदुत्कृष्टसम्यक्त्वकलिता अपि कर्मबाहुल्यात्प्राक्तनान्तराययोगादिह जन्मनि व्रतमेकमपि कर्त्तुं नो शक्नुवन्ति, जायन्ते चैते चतुर्थगुणस्थानके । योऽसौ विशुद्धो धर्मः प्ररूपितस्तीर्थकृता तस्यैते दानं, तपः, शीलं, भावनेति चत्वारः प्रकारा अपि सन्ति । एतेषामेकमपि प्रकारमाराधयतां जीवानां कृतकृत्यता सम्पद्यते । 116
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy