SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् व्यस्तेन, परं स तं पश्चादपि नैवोज्झति। यतस्तन्मानसे किलेयं शङ्का जायते-नूनमहमेतबलादेवोत्पतामि। इत्थमलीकशङ्काभ्रान्तिग्रन्थ्या यावज्जीवं स तं गृह्णात्येव, कदापि नो मुञ्चति, तद्वत् अथवा कस्यचिदेकस्य तापसशिष्यस्य मनसि सौवर्ण कटकं परिधातुमीहोत्पेदे। तदनु स तद्योग्यं स्वर्ण क्रीत्वा कस्मैचिद् धूर्तस्वर्णकाराय तन्निर्मातुमदात्। सोऽपि झटित्येव तदीयं वलयं निर्माय तस्मै प्रत्यर्प्य समाख्यत्- भोः! त्वमेतदापणे गत्वा परीक्षोपले परीक्षय? परन्तु मदीयं नाम कुत्रापि नो वाच्यम्। यतो भूयांसोऽत्र मे वैरिणः सन्ति, तेऽवश्यमेवैतद् विपरीतं वदिष्यन्ति। तथेति तद्वचः प्रतिपद्य स कस्यचित्साधुकारस्यापणे तत्परीक्षणमचीकरत्। कृते च तस्मिन् सौवर्णमेव यथार्थमभूत्तत्। ततो जातविश्वासः स स्वर्णकारान्तिकमागत्य पुनस्तस्मा अदात्। अथ स पश्यतोहरस्तद्वलयं धावन् धावन् पुराक्षिसं पैतलं वलयं तस्मै दत्तवान्, यदासीत्सौवणं तदपाहरदेव, उक्तं च-भोः! एतद् गृहाण। पुरा त्वयैकदा मदीयनामाग्राहं परीक्षितं, तदा सर्वे तत्स्वर्णमेव जगदुः। पुनरिदानीं तत्रैव गत्वा त्वमेतस्य परीक्षां कुरु? कथ्यतां च मन्नाम, मदभिधां श्रुत्वैव ते नूनमेतद्विपरीतं वक्ष्यन्ति, येन भवानपि तूर्ण ज्ञास्यति यत्सन्ति मेऽत्र नगर्या सर्वे द्वेषिणो न वेति। तदैव सोऽपि तद्वलयं लात्वाऽऽपणमेत्य तत्रामग्राहं तत्परीक्षणमकारयत्। तदा सर्वे व्यापारिण उच्चैरूचिरे-अहो! एतत्तु पैत्तलं वलयमस्ति। यदानीतं पुरा सौवर्ण तन्नास्त्येतत्। रे मूर्ख! त्वमवश्यं तेन धूर्तेन स्वर्णकारेण वञ्चितोऽसि। एतदवितथं लोकानां कथनं संश्रुत्य सोऽवोचत्-भो भो द्वेषसंमग्नाः! ज्ञातं मया, यद् भवन्तः सर्वेऽतथ्यमेव जल्पन्ति। ध्रुवमेव भवन्तः सर्वे साधुमपि तं वञ्चकं वदन्तो द्विषन्ति मुधा। यदेतदेव वलयं पुरा तन्नामाऽजानाना भवन्तः सकलाः सौवर्ण कथितवन्तः। इदानीं 112
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy