SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह - चरित्रम् रणो बुभुक्षुर्द्रविणार्थी वा विज्ञायते, कोऽप्यपूर्व एव चमत्कारी लक्ष्यते यद् भवन्तमेव त्वरया दिदृक्षति, अतोऽधुनैव तत्र भवता गन्तव्यम्। राजल्लदेव्या ईदृशं भाषणमाकर्ण्य तत्कालमेव तत्राऽऽगतः सः । अथ तत्राऽऽगतः श्रेष्ठी निजाङ्गणे तिष्ठन्तं तमेव ग्रावाणमनिमेषं पश्यन्तं तं निरीक्ष्य स स्वान्ते दध्यौ - 'किमेष शिलामेनामपेक्षते । तर्हि सहर्षमस्मै दास्यामि शिलामेतामवश्यम् । अथवा तत्र किमपि वैशिष्ट्यमवगच्छन्नेष तमेवमेकध्यानेन विलोकते खलु, मनस्येवं बहुधा विमृशन् योगीन्द्रं सादरमभिवन्द्य तमेवमभ्यधात्। योगीन्द्र! ममाद्य जनुः सफलमजनि । सर्वाणि सुकृतानि फेलुश्च यद् भवान् मदालयमागत्य पर्यपुनीत, सस्मार च माम् । अत इदानीमादिश्यताम्' यदपेक्ष्यते तदुच्यताम्। त्वादृशाय महीमह्याय मादृशामदेयं किमपि मा वेदीत् किमयं ग्रावाऽपेक्ष्यते तत्रभवताम्? सत्यपेक्षणे नूनमेनं गृहाण।' इत्थं निगदति जगडूशाहे योगीश्वरो जगाद - मतिमन् ! मयैष नापेक्ष्यते, किन्त्वस्मिन्महान् भेदो वर्त्तते, अत एनं गृहान्तः स्थापय तूर्णम् । योगीन्द्र ! एष ग्रावा मामकेन मुनीमेन जयन्तसिंहेनाऽऽर्द्रपुरादानीतोऽस्ति । कियद्भिर्वर्षैरत्रैव तिष्ठत्यसौ । सम्प्रति तत्र भवतामादेशेन गृहान्तर्नयामि । अस्मिन्नवसरे स योगीन्द्रो जगडूशाहं तत्प्रस्तरीयगुप्तभेदमशेषमजल्पत्। तथाहि-'अमुष्मिन् प्रस्तरे पुरा राज्ञा दिलीपेन न्यस्तानि महार्हाणि रत्नानि वर्त्तन्ते। भाग्यादिहागतानि तानि समस्तानि गृहाण ।' एतदाकर्ण्य श्रेष्ठी विस्मितो भूत्वा पुनरुवाच - योगीश्वर ! किमेष रत्नैर्निभृतो विद्यते ?, आश्चर्यमेतत् । एतद्गुतभेदं भवान् विवेद, अतोभवान् कोऽपि महीयान् पुमान् ज्ञायते । अतीतानागतज्ञानवाँश्च प्रतीयते।' इत्थमभिष्टुवन्तं श्रेष्ठिनं पुनराचक्शौ योगीन्द्रः 105
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy